मरणे ब्रह्मलोके वा तत्त्वं विज्ञाय मुच्यते ॥ १३६ ॥ |
यस्य निर्गुणोपासकस्य इह अस्मिन् जन्मनि उपासनं अविच्छिन्नमपि नातिपक्वं फलोन्मुखं न भवति स परत्र उत्तरकाले तत्त्वं विज्ञाय मुच्यते । उत्तरकालं विभजति, मरणे ब्रह्मलोके वेति । निर्गुणोपासनया तत्वं विज्ञाय तद्वारा मुच्यते । तत्त्वज्ञानं चोपासनपरिपाके जायते । यदि परिपाकोऽस्मिन् जन्मनि तदा इहैव विज्ञाय जीवन्मुक्तो भवति । यदि परिपाकाभावः, उत्तरकाले परिपाके तदा तत्त्वज्ञानोदयान्मुक्तो भवति । उत्तरकालः प्राणवियोगकालो । ब्रह्मलोकस्थितिकालो वेति भावः । यस्य निर्गुणोपासनं नातिपक्वं तस्य ब्रह्मलोकावाप्तिरसंशयेति सिध्यति । पूर्वोक्तयोगिकुलादिजन्मोक्तिस्तु मध्ये मध्ये विच्छिन्नब्रह्मतत्वविचारविषयेत्यवगन्तव्या ॥ १३६ ॥
उपासकस्य मरणसमये तत्वज्ञानं जायत इति श्रुतिस्मृतिप्रमाणदर्शनपूर्वकम् विशयति, द्वाभ्याम् ।
यं ये वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् । |
अन्ते मरणसमये यं यं वापि भावं देवताविशेषं निर्गुणब्रह्म वा स्मरन् कलेबरं देहं त्यजति तं तमेवरूपमेती (गी, ८-६) त्याकारकात् यच्चित्तः यस्मिन् भावे चित्तं यस्य स तेन भावेन यातीत्यर्थकात् “यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहाऽऽत्मना यथा संकल्पितं लोकं नयति प्रश्न, ३-१०) यथाकारी यथाचारी तथाभवती (बृ. ४. ६. ५) त्याकारकाच्च शास्त्रतः श्रुतिस्मृतिरूपात् अन्त्यप्रत्ययतः प्राणोत्क्रमणसमये यद्विधं ज्ञानं तदनुसारतो भाविजन्म नूनं भवति । तर्हि जन्मान्तरे निश्चिते सति निर्गुणोपासकस्य मरणकाले ज्ञानस्य मोक्षोपकारकत्वे प्रमाणत्वेन कथमेते उदाह्रियते इत्याशंक्याह, तथेति।तथा सति