यथा सगुणोपासने मरणसमये । पूर्वाभ्यस्तसगुणब्रह्माकारः प्रत्ययो भवति तथा । निर्गुणोपासने निर्गुण्प्रत्ययोऽपि निर्गुणब्रह्मगोचरः प्रत्ययोऽपि भविष्यति॥१३७,१३८
ननु निर्गुणोपास्त्या अन्ते तत्फलभूतनिर्गुणब्रह्मावाप्तिरेव स्यान्न तु ज्ञान निमित्तः साक्षात्काररूपो मोक्ष इत्याशंक्य नाममात्रेणैव तयोर्भद इत्याह,नित्येति ।
नित्यनिर्गुणरूपं तन्नाममात्रेण गीयताम् । |
तद्विचारप्राप्तं ब्रह्म नित्यनिर्णणरूपमिति नाममात्रेण गीयताम् । एष नित्यनिर्गुणब्रह्मप्रत्ययो मोक्ष एवाथता भवति । तत्रोदाहरणमाह,संवादीति । संवादिभ्रमवन्मतः। संवादिभ्रमो नाममात्रेण भ्रमस्वरूपः । वस्तुतस्तु प्रमैव । फलप्राप्त्युपयोगित्वात् । तद्वन्निगुणोपासनाफलभूतो निर्गुणब्रह्मप्रत्ययोऽर्थतो नित्य निर्गुणात्मकं परं ब्रह्मैव भवतीत्यर्थः ॥ १३९॥
उपासनासामर्थ्यात् ज्ञानोत्पत्तिः ततो मुक्तिः ।
ननु ज्ञानमन्तरा केवलमानसिकक्रियारूपभूतेन निर्गुणोपासनेन कथं मोक्षसिद्धिः स्यादित्याशंक्य तत्सामर्थ्यान्निर्गुणब्रह्मधीर्जायत इति सदृष्टान्त माह, तदिति ।
तत्सामर्थ्यात् जायते धीर्मूलाविद्यानिवर्तिका । |
अविमुक्तोपासनेन सगुणब्रह्मोपासनेन तारकब्रह्मबुद्धिवत् सगुणब्रह्मबुद्धिवत् तत्सामर्थ्यात् तस्य निर्गुणोपासनस्य सामर्थ्यात् मूलविद्यानिवर्तिका धीः अपरोक्षा बुद्धिर्जायते ॥ १४०॥
तत्र प्रमाणमाह, स इति ।
सोऽकामो निष्काम इति ह्यशरीरो निरिन्द्रियः । |
"सोऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव