साङ्ख्यैः सम्यक् ख्यानं ज्ञानं संख्या तद्वद्भिः ज्ञाननिष्टै: प्राप्यते यन्मोक्षाभिधानं स्थानं तद्योगैरपि फलानभिसन्धिपूर्वकमीश्वरे सर्वकर्मसमर्पणपूर्वकमाचरितैः कर्मभिर्गम्यते । साङ्ख्यं तु साक्षान्मोक्षसाधनम्, योगस्तु परंपरया तत्साधनमित्यपेरर्थः । अतः साङ्ख्यं योगं च फलैक्येन एकमिति यः पश्यति जनाति स पश्यति सम्यग्जानाति ॥ १३४ ॥
अस्मिन्नर्थे श्वेताश्वतरश्रुतिं प्रमाणयति, तदिति ।
तत्कारणं साङ्ख्ययोगाधिगम्यमिति हि श्रुतिः। |
साङ्ख्ययोगाधिगम्यं ज्ञानोपासनाभ्यां प्राप्तव्यं ज्ञानं यद्विद्यते तन्मोक्षस्य कारणमिति । “तत्कारणं साङ्ख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशै"रिति श्वेताश्वतरश्रुतिः (६-३)। अनेन कपिलपतञ्जलिप्रतिपादितयोः साङ्ख्ययोगयोरङ्गीकार: स्यादित्यशंक्य श्रुतिविरुद्धत्वाते शास्त्राभासमात्रे एवेत्याह,य इति । यस्तु श्रुतेर्विरुद्धः कपिल्यपतञ्जलिप्रणीतः स साङ्ख्ययोगयोः आभासो आभासो भवति । न तौ वस्तुतः साङ्ख्ययोगौ । “स्मृत्यनवकाशदोषप्रसंग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसंगात्” (ब्र. २.१.१.“एतेन योगः प्रत्युक्त (ब्र.सू. २.१.३) इति सूत्राभ्यां कपिलपतञ्जलिकृतयोस्साङ्ख्ययोगयोर्वेदान्तविरोधितया निराकृतत्वात्तयोः शास्त्राभासत्वमात्रमेवेति भावः ।'गीतादौ साङ्ख्ययोगशब्दौ तत्त्वविचारोपासनापरौ, न तु कपिलपतञ्जलिप्रणीतदर्शनपरौ । ननु गोताशास्त्रे योगशब्दः कर्मयोगपरतया प्रयुक्त इति चेन्न दोषः। उपास्तेरपि कर्मयोगान्तःपातित्वात् । “ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना" मित्यघिकारिभेदेन ज्ञानकर्मरूपमार्गद्वयमात्रस्यैव तत्र प्रतिपादितत्वात् ।। १३५ ॥
अपक्वोपासकानां गतिविचारः।
नन्वात्मज्ञानोदयात् प्रागेव मृतस्योपासकस्य का गतिरित्याशंक्य मरणकाल ब्रह्मलोके वा तस्य तत्सिद्धिरिति समाधत्ते, उपासनमिति ।
उपासनं नातिपक्वमिह यस्य परत्र सः । |