निर्गुणब्रह्मतत्त्वस्य विचारत्यागता मननादिपूर्वकविचारपरित्यागान्निर्गुणब्रह्मण उपासकानामपि एवं पिंडमुत्सृज्य करं लेढीति न्याय आपतेदिति चेत् बाढं सत्यमेव । किमर्थं तर्हि निर्गुणोपासनं विधीयत इत्यत आह,तस्मादिति । तस्मात् शक्त्यभावाद्वा भूतभविष्यद्वर्तमानप्रतिबन्धकैर्वा विचारस्यासंभवे योगो निर्गुणोपासना ईरितः ॥ १३१॥
विचारासंभवे कारणमाह, बह्विति ।
बहुव्याकुलचित्तानां विचारात्तत्त्वधीर्न हि । |
बहुव्याकुलच्चित्तानां अमितव्यापाराकुलितमानसानां विचारात् तत्त्वधीः न जायते । कार्यान्तरोद्विग्नमानसानां मननादेरसंभव इत्यर्थः । ततस्तेषां योगो निर्गुणोपासना मुख्यः । तेन धीदर्पो बुद्धेश्चांचल्यं नश्यति । मुख्योपायेऽशक्त्ताना- मुपायान्तरमवश्यमश्रयणीयमिति भावः ॥ १३२ ॥
अव्याकुलितचित्तानां सुसाधत्वाद्विचारो मुख्य इत्याह, अव्याकुलितेति ।
अव्याकुलितधियां मोहमात्रेणाच्छादितात्मनाम् । |
प्रतिबन्धैरव्याकुलितबुद्धीनां धीदर्परहितानां मोहमात्रेण अज्ञानमात्रेण आच्छादितात्मनां पिहितमनस्कानां साङ्ख्यनामा विचारः पञ्चकोशविवेचना- पूर्वकतत्वविचारो मुख्यः स्यात् । “ज्ञानयोगेन साङ्ख्यानामंकर्मयोगेन योगिना"मिति (गी. ३-३) स्सृतेः । तस्य मुख्यत्वं प्रतिपादयति झटितीति, स विचारो झटिति शीघ्रम् सिद्धिदो मोक्षप्रदो भवति ॥ १३३ ॥
साङ्ख्ययोगयोरुभयोरपि मोक्षसाधनत्वे श्रीकृष्णवाक्यमुदाहरति, यदिति ।
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । |