वक्तुं मन्तुं तथा ध्यातुं शक्नोत्येव हि तत्त्ववित् ॥९५॥ |
आत्मानं सकृन्निश्चित्य ज्ञात्वा तदनन्तरं यदाऽपेक्षा जायते तदैव तमात्मानं वक्तुं मन्तं ध्यातुं च तत्त्ववित् शक्नोत्येव ॥ ९५॥
ननूपासकस्य स्वोपास्यदेवतारूपानुसंधानावश्यकीभूतचित्तवृत्तिनिरोधेन जगद्विस्मृतिर्दृष्टा । तथैवात्मानुसंधानसन्निविष्टस्य ज्ञानिनोऽपि जगद्विस्मृतिर्वक्तव्येत्याशंक्य ज्ञानिनो विस्मृतिर्ध्याननिमित्ता न तु ज्ञानजन्येत्याह, उपासक इति।
उपासक इव ध्यायन् लौकिकं विस्मरेद्यदि । |
ननुपासक इवात्मविदपि ध्यायन्नात्मानुसंधानं कुर्वन् लौकिकं व्यवहारं जगदादिकं यदि विस्मरेत् सत्यं विस्मरत्येव । किंतु सा विस्मृतिध्यानात् भवति, न तु वेदनात् । न तु ज्ञानादित्यर्थः ॥ ९६॥
ननु मोक्षसिद्धये ज्ञानिनोऽपि ध्यानमवश्यमेवेत्याशंक्याह, ध्यानमिति ।
ध्यानं त्वैच्छिकमेतत्य वेदनान्मुक्तिसिद्धितः। |
एतस्य तत्त्वविदो ब्रह्मात्माभेदस्य जगज्जीवेश्वरमिथ्यात्वस्य च वेदनात् दृढज्ञानान्मुक्तिसिद्धितो मुक्तेस्सिद्धत्वादेतस्य ध्यानमैच्छिकमिच्छाकल्पितं । नैतदावश्यकमित्यर्थः। मोक्षसिद्धये ज्ञानं विनोपायान्तरं शास्त्रेष्वन्वयव्यतिरेकाभ्यां निषिध्यत इत्याह, ज्ञानादेवेति । ज्ञानादेव नान्यस्मात्कैवल्यमिति “ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यते ।” “तमेवं विदित्वाऽतिमृत्युमेति" “नान्यः पंथा विद्यतेऽयनाये" त्यादि (श्वेत. ३.८) शास्त्रेषु डिंडिम उद्घोषणं श्रूयते ॥ ९७ ॥
तत्वविदो ध्यानाभावे सदा बहिःप्रवृत्तिरूपमापत्तिमाशंक्येष्टापत्त्या परिहरति, तत्त्वविदिति ।
तत्त्वविद्यदि न ध्यायेत्प्रवर्तेत तदा बहिः । |