सकृत्प्रत्ययमात्रेण घटश्चेद्भासते सदा । |
जडस्वरूपो घटः सकृत्प्रत्ययमात्रेण सकृज्जन्यज्ञानमात्रेण सदा भासते । चेत् स्वप्रकाशोऽयमात्मा विना चित्तनिरोधनं घटवत्किं न भासते ॥ ९२॥
नन्वात्मनः स्वयंप्रकाशत्वेऽपि तद्विषयकबुद्धिवृत्तेरेव तद्ज्ञानत्वात् वृद्धि वृत्तेश्च क्षणिकत्वात् तस्मिन्नवस्थानाभ्यासोऽपेक्ष्यत इत्याशंक्येदं चोद्यम् घटज्ञानेऽपि समानमेवेति प्रतिबंद्या समाधत्ते स्वप्रकाशेति ।
स्वप्रकाशतया किन्ते तद्बुद्धिस्तत्ववेदनम् । |
आत्मनः स्वप्रकाशतया ते किं प्रयोजनम् ? न किमपीति भावः । कुतः? तद्बुद्धिः बुद्धिवृत्तिरेव तत्त्ववेदनं तत्वस्य ज्ञानं भवति । बुद्धिश्च क्षणनाश्या बुद्धि वृतिश्च क्षणमात्रकालेनैव नाशनशीलेत्यर्थः । अतो ब्रह्मणि भूयो भूयीऽवस्थानमवेक्ष्यते इत्युच्यते चेदेतच्चोद्यम् घटादिषु सर्वप्रमेयवस्तुषु तुल्यमेव । तेषामपि बुद्धि वृत्तिविषयत्वाविशेषादित्यर्थः ॥ ९३ ॥
ननु घटादिबुद्धिवृत्तेः क्षणिकत्वेऽपि सकृन्निश्चितस्य घटस्य सर्वदा व्यवहारक्षमत्वात् तत्र चित्तस्थैर्यानावश्यकतैवेत्याशंक्यात्मन्यपि तत्समानमित्याह,घटादाविति।
घटादौ निश्चिते बुद्धिर्नश्यत्येव यदा घटः । |
घटादैौ सकृन्निश्चिते स्वस्वरूपेण ज्ञाते सति तद्विषयिका बुद्धिर्नश्यत्येव । तथापि घटो नेतुं व्यवहर्तुमिष्टः तदा शक्यः पुनरदृश्यमानोऽपि व्यवहर्तुं शक्यते । इति चेत्तदात्मन्यपि समम् । सकृदज्ञानेनात्मापि व्यवहर्तुं शक्यत इत्यर्थ: ॥ ९४ ॥
आत्मन्युक्तां समतां विवृणोति, निश्चित्येति ।
निश्चित्य सकृदात्मानं यदापेक्षा सदैव ताम् । |