तेन तार्किकशंकानामत्र कोऽवसरो वद ॥ ६७ ॥ |
वादप्रतिवादकोलाहलविमुखानां मुमुक्षूणाम् श्रुत्यर्थं श्रुतेरभिप्रेतमर्थं विशदी कुर्मः । तस्मान्नायमवसरस्तर्कशास्त्रपांडितीप्रदर्शनायेति भावः ॥ ६७ ॥
श्रुत्यर्थानुकूलं तर्कमालम्ब्य तदर्थग्रहणे निष्पन्नमर्थमाह, तस्मादिति ।
तस्मात्कुतर्कं सत्यज्य मुमुक्षुः श्रुतिमाश्रयेत् । |
तस्मात् कुंतर्कं श्रुतिप्रमाणापेतं तर्कम् संत्यज्य मुमुक्षुर्निरतिशयसुखाभिलाषी श्रुतिमाश्रयेत् । श्रुतिरेव तस्य शरणं न तु घटपटेन्धनबहुलस्तर्क इत्यर्थः । प्रस्तुतमाह, श्रुताविति । माया जीवेशौ करोतीति श्रुतैौ प्रदर्शितम् । न तु कूटस्थमित्यतः कूटस्थं प्रतिमातिशंक्यतामिति भावः ॥ ६८॥
पूर्वग्रंथोदाहृतां जीवेशकृतसृष्टिं विभजति, ईक्षणेति ।
ईक्षणादिप्रवेशान्ता सृष्टिरीशकृता भवेत् । |
चित्रदीपे त्रयोदशोतरद्विशततमे श्लोके, तृप्तिदीपे चतुर्थे च व्याख्यातपूर्वोऽयं विस्तरेण ॥ ६९॥
कूटस्थस्यासंगत्वादिकमपि श्रुतिप्रतिपादितत्वान्मुमुक्षुणां मननयोग्यमित्याह, असंग इति ।
असंग एव कूटस्थः सर्वदा नास्य कश्चन । |
कूटस्थः सर्वदा असंगः । अस्य कश्चन जन्ममृत्युजराद्यतिशयो विकारो न भवतीति श्रुतौ प्रदर्शितम् । तेन कारणेन कुतर्कम् संत्यज्य श्रुतिमश्रित्यैवं मनसि विचार्यताम् ॥ ७०॥
एवं विचारे फलमाह, नेति ।