फलितमाह, अत इति ।
अतोऽस्य माभूद्वेद्यत्वं स्वसत्त्वं त्वभ्युपेयताम् । २५ ॥ |
अतोऽस्य असत्त्वस्य वेद्यतत्वं ज्ञानविषयत्वं मा भूत् । आत्मनोऽनिष्टशून्यत्वापत्तिवारणाय स्वसत्वं स्वस्य आत्मनः सत्त्वमभ्युपेयतामंगीक्रियताम् । यदि तव सत्त्वमभिलषसि ? तर्हि विविक्तं वस्तु सदित्यभ्युपगच्छेति सुहृद्भूत्वा श्रुतिरुपदिशति “अस्तीत्येवोलब्धव्य” इतिति (काठः २.६ १३) भावः ॥२५॥
आत्मनः सत्त्वे कीदृशं तस्य स्वरूपमित्याशंक्य परिहरति ।
कीदृक्तर्हीति चेत्पृच्छेदीदृक्ता नास्ति तत्र हि । |
तर्ह्यात्मनस्सत्त्वमङ्गीक्रियते चेत्तदा तस्य स्वरूपं कीदृकू किंधर्मविशिष्टमिति पृच्छेच्चेत् तत्र हि तत्स्वरूपे ईदृक्ता एवंगुणविशिष्टता नास्ति । “ अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च ” (कठ.१.३.१५) “अस्थूलमनण्वह्र्स्वमदीर्घमि’ (बृ.३.८.८) त्यादिश्रुतिभिर्यत्स्वरूपमनीदृक् अतादृक् ईदृक्तादृगिति वर्णनातीतं भवति तत्स्वरूपं तदेवात्मनः स्वरूपमिति विनिश्चिनु॥२६॥
आत्मस्वरूपस्य वर्णनातीतत्वे उपपत्तिमाह, अक्षेति ।
अक्षाणां विषयस्त्वीदृक् परोक्षस्तादृगुच्यते । |
अक्षाणामिन्द्रियाणां विषयो गोचर ईदृक् ईदृक्छब्दवाच्यः । परोक्षः इन्द्रियागोचरो मानान्तरमेयस्तादृक्छब्देनोच्यते । विषयी सर्वव्यवहाराणां ज्ञाता साक्षी नाक्षविषयः। नेन्द्रियैर्मनसा वा ज्ञेयः । अत ईदृगिति वक्तुं न शक्यते । स्वत्वात् प्रकाशत्वेन मानान्तरानपेक्षणादस्य साक्षिणः परोक्षता मानान्तरमेयतापि नो तेन तादृगिति वक्तुं न शक्यते ॥ २७ ॥
सर्वप्रमाणाविषयत्वे ब्रह्मणः साक्षात्कारः कथमित्याशंकापरिहारव्याजेन तस्य स्वरूपलक्षणमाह , अवेद्य इति ।