पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
[पञ्चकोशविवेक
पञ्चदशी

 शून्यत्वस्य दुर्घटत्वं विवृणोति, अस्तीति ।

अस्ति तावत्स्वयं नाम विवादाविषयत्वतः ।
स्वस्मिन्नपि विवादश्चेत् प्रतिवाद्यत्र को भवेत् ॥ २३॥

 स्वयंशून्यवादी भवान् । अस्ति तावन्नाम। भवत्सत्ताविषये विवादाविषयत्वत: विवादाभावात् अस्तीति शून्यत्वनिरासेन सत्तायाः दृढत्वं प्रतीयते । तावत् नामेति पदद्वयेन तस्याः प्रसिद्धिश्च । एवं सति स्वस्मिन्नपि भवत्सत्ताविषयेऽपि विवादश्चेत् विप्रतिपत्तिश्चेत् नास्तीति कोटिर्यदि स्वीक्रियत इत्यर्थःअत्र अस्मिन् विवादे प्रतिवादी नास्तीति कोट्या: स्वीकर्ता को भवेत् इति योजना । भवतोऽसत्त्वान्न कोऽपीत्यर्थः । यदि सत्त्वमंगीकरोषि तदास्मत्पक्षसिद्धिः । यदि नांगीकरोषि तदाऽस्यां विप्रतिपत्तौ प्रतिवादिनोऽभावादस्मत्पक्षो निस्सपत्रसिद्ध इति भावः ॥ २३॥

 अस्मिन्नर्थेऽनुभूतिमाह, स्वेति ।

स्वासत्त्वं तु न कस्मैचिद्रोचते विभ्रमं विना ।
अत एव श्रुतिर्बाधं ब्रूते । चासत्ववादिनः ॥ २४ ॥

 विभ्रमं विना भ्रांतिं विहायेतरावस्थायां यस्मै कस्मैचिन्मनुष्यमात्राय स्वासत्त्वं स्वस्याभावस्तु न रोचते । असत्त्वस्यानिष्टतां द्रढयति, अत एवेति । अत एव स्वासत्त्वस्यानिष्टत्वादेव असत्त्ववादिनो बाधं अनुपपत्तिं श्रुतिर्ब्रूते ॥२४॥

 अनुपपत्तिबोधिकां "असन्नेव स भवति । असद्ब्रह्मेति वेद चेदि" (तै.२.६.) ति श्रुतिमर्थतः पठति असदिति ।

  असद्ब्रह्मेति चेद्वेद स्वयमेव भवेदसत् ॥२४=॥

 यो ब्रह्म असदिति शून्यमिति वेद जानाति चेत् सः स्वयमेवासत् शून्यमेव भवेत् । इति शून्यवादिनोऽसत्त्वमेवापाद्यते । आपद्यमानं च प्रतिवादिनस्सर्वधानिष्टमेवेति प्रसिद्धम् । एवं च शून्यवादिनः स्वस्यासत्त्वमनिष्टमिति फलितम् । यदिस्वस्य सत्त्वमंगीकरोति स्वस्वैव ब्रह्मरूपत्वात् ब्रह्म अनिच्छयाप्यंगीकृतमेवेति बोध्यम् ॥२४=॥