अथर्ववेदः/काण्डं ६/सूक्तम् ००२
दिखावट
← सूक्तं ६.००१ | अथर्ववेदः - काण्डं ६ सूक्तं ६.००२ ऋषिः - अथर्वा |
सूक्तं ६.००३ → |
दे. सोमो वनस्पतिः। परोष्णिक्
अनेन तृचेन सोमयागे द्रोणकलशस्थं सोमं ब्रह्मा अनुमन्त्रयेत(वैतान श्रौ.सू. १६.१३) |
इन्द्राय सोममृत्विजः सुनोता च धावत ।
स्तोतुर्यो वचः शृणवद्धवं च मे ॥१॥
आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः ।
विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥
सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
युवा जेतेशानः स पुरुष्टुतः ॥३॥