अथर्ववेदः/काण्डं ६/सूक्तम् ००१

विकिस्रोतः तः
अथर्ववेदः - काण्डं ६
सूक्तं ६.००१
ऋषिः - अथर्वा
सूक्तं ६.००२ →
दे. सविता। उष्णिक्, .......।

दोषो गाय बृहद्गाय द्युमद्धेहि ।
आथर्वण स्तुहि देवं सवितारम् ॥१॥
तमु ष्टुहि यो अन्तः सिन्धौ सूनुः ।
सत्यस्य युवानमद्रोघवाचं सुशेवम् ॥२॥
स घा नो देवः सविता साविषदमृतानि भूरि ।
उभे सुष्टुती सुगातवे ॥३॥