१६३६ ब्राह्मस्फुटसिद्धान्तः महदतो मध्यभुक्तरथाधिकं तंत्रांतरं भवति । यस्माद्वक्रादय उपलभ्यते, इत्यादि स्वधिया योज्यम् तत्कलोत्पत्तिवशाच्चकेंद्र भुक्तिरुपलभ्यते । तां ग्रहभुक्तौ संयोज्य शो घ्रोच्चभुक्तिर्भवति । म दकेंद्र भुक्तिग्रहभुक्तयोरंतरं म दोच्चभुक्तिर्न च शीघ्र मदोच्चनीचे वस्तुभूत इत्यर्थः। एवं परमविक्षेपाद्यते दक्षिणोत्तरयोविमडल सिद्धिः । ततः परम विक्षेपस्यान्यत्रान्यदृष्टत्वात्यातगते कल्पना यथा कण्वशा भुक्ति कल्पना, एव मानवशादपि, तुल्यैवमत्राप्युच्चादि कल्पना युक्तावसाना तुल्यत्वात् । मोदशीव्रकर्णयोरपि न केवल मुच्चादयः कल्पिता यावद्वैपंजरभ्रमणं कल्पितमेव नः प्रतिभाति, ग्रहस्य युगपद्गतद्वयासंभवात् । यदा तु पुनर्भव आवर्तनं कल्पते । तदा भपंजरे स्थिरेपि प्रतिदैवसिकावुदयास्तमयौ संभवेतां ग्रहाश्चापमडलविमडलगतयः प्रणगतय एवं विमोडलवशाद्दक्षिणोत्तरापि गतिः सिद्धा भवति, भूयश्वाबर्तावत्रयंहोरात्रेण क्षितिजे रविणा सह । युज्यते । ग्रहश्चाग्रतोऽग्रतो याति वक्रादिवासना तुल्यैव, आचार्यायैभट्टेनापि भू भ्रमण मभ्युपगतम् । यतो दशगीतिकासूक्तम् । प्राणेन कलां भूरिति, तथार्याष्टशते, अनु लोमगतिर्नस्थः पश्यत्यचलं विलोमगं यद्वत्। अचलानि भानि तद्वत्समपश्चिमगानि लंकायामिति । लोकभयाद्भास्करादिभिरन्यथा मत्वा इयमार्या व्याख्याता । न चात्र तत्त्वमवगन्तु शक्यतेऽस्मदादिभिः किंतु स्वाभिप्रायो लिगनाकृतेत्येवं स्फुटगतिबसने द्विशतः प्रदिशता तत्र व प्रत्याय प्रदर्शयिष्याम इति स्फुट इदानीं रविचन्द्रग्रहणयोर्वासना प्रदश्यते । तत्र मानयने योजनकर्णा भ्यां प्रयोजनं तत्प्रसंगेन सर्वग्रहाणां योजनकर्णायनमाह कक्षाव्यासार्धगुण मंडला लिप्ता विभजिता कर्णः । वास०--कक्षेति जात्यपेक्षयैकवचनं व्यासार्थं ग्रहणेन भगणकला व्यासार्ध गृह्यते नखमुनिरदायत योजनकर्णप्रमाणार्थं भगणकलाकर्णः तेनेष्टग्रह उक्त कक्षाव्यासार्धेन गुणमण्डललिप्ता गणकलाः ताभिविभाजिता कि भवति कर्णः भूमध्यं तत्कक्षामण्डलांतरे योजनात्मक व्यासार्थं भवतीत्यर्थः । अत्र त्र राशिकं यदि भगणकला तुल्ये परिणाहे रसचन्द्रकृततुल्यं व्यासार्थं तदिष्टग्रह कक्षातुल्ये कि भविष्यतीति फलं योजनकर्णम् । सर्वेषां कक्षाकर्णानयनम् । मया सिद्धा एव योजनकपुंलिखते कर्णद्वयेन तद्यथा अज्ञेषु खेषु वसुषट्क मितोऽर्कः कर्णः चन्द्र खवेदयमचन्द्रशरैश्च कोजः । शून्यद्विवेदवस्वस्विनतुल्यसंख्यबोधस्तुनेत्रवसुरंतु- कृताष्टिसंध्या । रामाग्निमगलकृतार्कवसुप्रसंख्यै जैवः सितस्य रसखाब्धिशशिद्विवेदाः ।
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४७
दिखावट