पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६३७ श्रश्व्यष्टबाणव्रनवेंदुखनेत्रसंख्यः सौरोखे विनिहितः स्वरसैस्तु भानाम् । एते योजनक मध्यम ग्रहनक्षत्राणामिति । “ इदानीं योजनकर्णानांस्फुटीकरणार्थं द्वितीयमार्यार्थमाह स्वकलाकर्णेन गुणः कर्णस्त्रिज्याहुतः स्पष्टः ॥३१॥ . वास०-स्वश्च सौकलाकर्णः स्वकलाकर्णः तेन गुणः को सो कर्णानांतर- प्रक्रांतौ मध्यमयोजन णं इत्यर्थः। त्रिज्याहतः स्पष्ट: व्यासार्धभक्तः स्फुटयोजन कर्णः। प्रतिमण्डलस्य ग्रहभूमध्यप्राणी भवतीत्यर्थः । एवं सर्वेषां कर्णपुटीकरणम् । वासना त्रैराशिकोक्ता इदानीं भूरविशशिना योजन अंबप्रमाणदर्शनार्थं चात्र खरूपप्रतिपादनाय चायमाह- सृद्दहनजलमयान विष्कंभो योजनैः क्विनंझनाम् । शशिवसुतिथिभियंमपक्षशररसैः शून्यवसुवदैः ॥३२॥ वास०-- मृद्दहनजलमयानां यथासंख्यं क्विनीनाम्कुः पृथिवी इनो रविः इ दुश्चन्द्रः, कुश्चेनश्चेंदुश्चेति द्वंद्वः । तेषां विष्कंभो योजनैः मृन्मयौ भूः प्रत्यक्षत एवास्माभिरुपलभ्यते । अग्निमयः सूर्यः सोऽप्यस्माभिः तादृगेवोपलभ्यते । यतोऽत्रै दीधिति प्रतिबिबत्वेन चन्द्रदीधितयो यथान्यत्रापि जले पतिता अर्करश्मयः तदपि जलं रश्मिवकुर्वते तद्वदिहापि तेषां क्विनंहूनां योजनैरेतावत्संख्यैवष्कंभः भूगोल व्यासः शशिवसुतिथिभिः शतैरेकाशीत्यधिकैः १५८१। रविगोलस्य व्यासोपमपक्ष शररसैः षडिभः सहभः पञ्चभिः शतैःद्वाविंशत्यधिकैरित्यर्थः-६५२२। चन्द्रगोल स्य व्यासः शून्यवेदैश्चतुर्भिः शतैरवत्यधिकैरित्यर्थः ॥४८०।। इदानीं चन्द्रप्रदेशे भूछाया विष्कु भस्य योजनात्मकस्यानयनार्थमार्यामाह कर्कव्यासांतरगुणमदुस्फुट कर्णमर्ककर्णाहतम् । प्रोह्य भुवो भूछाया विष्कंभश्चन्द्रकक्षायाम् ॥३३॥ वास०-कुचाकश्च कक तयोव्र्यास कर्कव्यासौ व्यासयोरंतरं न्यासेत् । रविभूयोजन व्यासयोवशेष इत्यर्थः । तेन गुण इ दोः स्फुटकर्णचन्द्रमसः स्फुट योजनकणं इत्यर्थः । अकंकर्णेन हतोकंकणंहतः रविस्फुटयोजनकर्णेन विभक्त इत्यर्थः । अतः कर्कव्यासांतरगुण बिंदु स्फुटकर्णमर्क कहतम् । स तं प्रो कुत इत्याह भुवो भूव्या सहभूछाया द्रिष्कंभश्चन्द्रकक्षायां चन्द्रकक्षाग्रहणेन चेवस्थान- प्रदेशंदर्शयति । तेन चन्द्रपतिमण्डलप्रदेशे योजनामी भूछाया व्यासो भवति इत्यर्थः। यतस्ततोघो महानुपरि च सूक्ष्म भूछाया व्यासो भवतीत्यर्थः । तद्यथा