पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५९८ ब्राह्मस्फुटसिद्धान्ते । इति श्री ब्रह्मगुप्तकृतो ध्यानग्रहोपदेशाध्यायः समाप्तः ।। सु. भा.-प्रतिकञ्चुककारी पिशुनः । शेषं स्पष्टम् ।।७२॥ मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्ते । हृदि तं विनिधाय नूतनोऽयं रचितो ध्यानखगे सुधाकरेण ॥१॥ अपकृष्य दशावतारलीलां प्रकृतिर्वामकलामलङ्करोति । परिहाय सुपात्रमत्र लोकः सकला सङ्कलयन्ति कौ कुपात्रम् ॥२॥ ॥ या ब्रह्मगुप्तकृतिरत्र सहस्रसूनैर्नाना प्रकारकरणेन च भास्करेण । मन्दीकृता पृथ्वृथातिलकेन सेयं विद्योतिता निजकरेण सुधाकरेण । ये भास्करादिकृतिपारगता नवीने चापप्रपञ्चजविधौ कुशलाः सुशीलाः। श्रीमत्सुधाकरकृतं तिलकं निधाय सज्ज्यौतिषेऽत्र विहरन्तु त एव धीराः।।४।। कृपालुसूनुना सुधाकरद्विवेदिना सुतं परात्परं निधाय मानसे सुकोशलापतेः। गजेषुनन्दभूमिहायने मधौ सितगुरौ,सुरामजन्मसत्तिथावकारि सोपपत्तिका (५॥ संन् १६०१ मार्चमासस्याष्टाविशतिदिने श्रीजानकीरमणचरण सरोजरजः प्रसादेनायं तिलकः सम्पूर्णतामगात् । इति श्रीकृपालुदत्तसूनु सुधारकद्विवेदिविरचितो ब्रह्मगुप्तकृतध्यानग्रहोपदे शाध्यायतिलकः समाप्तः । यह किसको न देना चाहिये सो कहते हैं । हि. भा–जिष्णु सुत अह्मगुप्त से निर्मित इस "ध्यानग्रहोपदेशाध्याय ’ को दुर्जन, कृतध्न, शत्रु, प्रतिकञ्चुक (चुगलखोर) इन सबों को न देना चाहिये, यह ग्रन्थ बनाने वाले का उपदेश है ।।७२ यहां ब्रह्मगुप्तकृत ध्यानग्रहोपदेशाध्याय समाप्त हुआ ।