पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९४ ब्राह्मस्फुटसिद्धान्ते इदानमुन्मण्डलसंस्थानमाह । पूर्वापरयोर्लग्नं याम्योत्तरयोर्नतोन्नतं क्षितिजात् । स्वाक्षांशैरुन्मण्डलमझनशोहनि वृद्धिकरम् ॥५० सु. भा.-–स्पष्टार्थम् । पूर्वापरक्षितिजसङ्गमयोविलग्नम्'-इत्यादि भास्क- रोक्तमेतदनुरूपस् ॥५०॥ वि. भा.-पूर्वापरवृत्तक्षितिजवृत्तयोः पूर्वदिशि यत्र योगः पश्चिमदिशि च यत्र योगस्तद्विन्दुद्वयगतं क्षितिजात् स्वाक्षांशैर्याम्योत्तरयोर्नतोन्नतमर्थात् दक्षिण समस्थानात् स्वाक्षांशैरधगतमुत्तरसमस्थानाच्च स्वाक्षांशैरुपरिगतमुन्मण्डलं भवति तच्च दिनरात्र्योरपचयोपचयकारकं भवत्यर्थादेतदुन्मण्डलं निरक्षदंशीयं क्षितिजं भवति उन्मण्डलवति देशे दिनरात्री-उपचयापचयवत्यौ भवतः। उन्मण्डल हीने निरक्षदेशे च दिनरात्री सर्वदैव समाने भवत इति । सिद्धान्तशेखरे “संसक्ती समवृत्तभूजवलयप्रापश्चिमासङ्गयोर्याम्योदक् क्षितिजाधरोत्तरगतं स्वाक्षांश- तुल्यान्तरे । स्यादुन्मण्डलमेतदप्यवनिजं देशे निरक्षे स्मृतं जायेते तमस्विनी दिवस योवृद्धिक्षयौ तद्वशात् ” इति श्रीपत्युक्तोन्मण्डलरचनाक्रम आचायक्तानुरूप एव। सिद्धान्तशिरोमणौ ‘पूर्वापरक्षितिजसङ्गमयोविलग्नं याम्ये ध्रुवे पललवैः क्षितिजादधः स्थे “ सौम्ये कुजादुपरिचाक्षलवैश्रुवे तदुन्मण्डलं दिननिशोः क्षयवृद्धि कारि ।ॐ भास्करोक्तमिदमाचार्योक्तानुरूपमेवेति ॥५०॥ अब उन्मण्डल संस्थान को कहते हैं । हि- भा-पूर्वापरवृत्त और क्षितिजवृत्त की पूर्वदिशा में जहां योग (पूवंस्वस्तिकं) है और पश्चिम दिशा में योग (पश्चिम स्वस्तिक) है, एतद्विन्दुह्य गत तथा दक्षिण समस्थान से अपने अक्षांशान्तर पर अधोगत उत्तर समस्थान से अपने अक्षांशान्तर पर ऊपर गया । हुआ वृत्त उन्मण्डल है, यह दिन और रात्रि का हानि (अपचय) और वृद्धि (उपचय) कारक है । यह उन्मण्डल ही निरक्ष देशीय क्षितिज है इसलिये निरक्ष देश में दिन और रात्रि सर्वदा बराबर होती है, निरक्ष देश से भिन्न देश (जहां उन्मण्डल है) में दिन और रात्रि के न्यूनाधिकत्व के कारण उन्मण्डल ही है । सिद्धान्त शेखर में श्नोपति और भास्कराचार्य नै भी आचार्योंक्त के अनुरूप ही कहा है इति ॥५० इदानीं विषुवन्मण्डलसंस्थानमाह । विषुवन्मण्डलमूध्वं समभमण्डलतः स्थितं स्वकाक्षांच। याम्येनोत्तरतोऽधः क्षितिजे प्राच्यपरयोलंग्नम् ।।५१