स्फुटगति वासना १३८१ अत्रोपपत्तिः । त्रैराशिकेन भास्करोत्तया ॥३४ वि. भा.-भूभायायोजनात्मकबिम्बमानेन गुणितं त्रिज्याप्रमाणं चन्द्र- कर्णेन भक्त तदा कलात्मकं भूभाबिम्बं भवति । एवं योजनात्मकं रविबिम्बं त्रिज्यया गुणयित्वा रविकर्णेन भजेत्फलं कलात्मकं रविबिम्बं भवति । योजनात्मकं चन्द्रबिम्बं त्रिज्यया गुण यिवा चन्द्रकर्णेन भजेत् फलं कलात्मकं चन्द्रबिम्बं भवतीति । के= रविबिम्बकेन्द्रम्। दृ= दृष्टिस्थानम्= भूकेन्द्रम् । दृस्प दृस्य दृष्टिस्थानाद्रविबिम्ब स्पर्शरेखे, दृके= रवि कर्णः । केस्प= केस्पी=रविबिम्ब व्यासार्धम्केस्पट = = चंकण =केस्पंदृ=९०, केदृस्प=<केदृस्प = रविबिम्ब कला । दृकेस्प त्रिभुजेऽनुपातेन त्रि x केप त्रि x2 रव्या = ज्या ५ रविकला अस्याश्चापं द्विगुणितं तदा रविबिम्ब रविकर्ण कला प्रमाणं भवति । परन्त्वाचार्येण रविबिम्बकलाउंज्या (ज्या रविंक) प्रमाणं द्वाभ्यां गुणयित्वा चापं कृतं तद्विम्बकलाप्रमाणं कथ्यते तन्न समीचीनं यतो द्विगुणितार्धज्या द्विगुणित चापपूर्णज्या भवति, पूर्णाज्यातश्चापकरणविचि- त्रि ! चंव्या नईयन भास्कराचार्योक्तौ न समीचीनम् । एवमेव चन्द्रस्यापि = =ज्या ३ चैविक अस्याश्चापं द्विगुणितं तदा वास्तवं चन्द्रबिम्बकलाप्रमाणं भवति । एवं त्रि ३ भूभाव्या = ज्या ३ भूभाविंक, अस्याश्चापं द्विगुणितं वास्तवं भूभाबिम्बकला प्रमाणं भवति, आचार्योक्तन्त्वसमीचीनमेव । सिद्धान्तशेखरे “एतानि भास्करमृगाङ्कमहीप्रमाण त्रिज्याहतानि तनुविस्तृतियोजनानि । भक्तानि भानुशशिशीतकरश्रवोभिलिप्तामयानि हि भवन्ति यथाक्रमेण ।" श्री- पत्युक्तमिदमाचार्योक्तानुरूपमेव तथा सिद्धान्तशिरोमणौ "सूर्येन्दुभूभातनुयोजनानि त्रिज्याहुतान्यर्काशशीन्दुकएँ। भक्तानि तत्कालिप्तिकांस्तास्तेषां क्रमान्मान कला भवन्ति । ’ भास्करोक्तमिदं च न समीचीनमिति पूर्वोक्तोपपत्त्या स्फुट- मेवेति ॥३४॥
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२९०
दिखावट