तृतीयाध्यायस्य द्वितीयः पादः । ७९७ यत्तु यातयामत्वात्सामान्यविशेषबाधाद्द न प्रकृतग्रवणमि ति । तन्न। वचनद्यालयमविधानाङ्गभूतमन्त्रवृत्या च स- मुच्चये सति विरोधाभावादुभयमप्यदोषं तव()धेनैवंचि नैवं कुर्यादित्येषापि वचनव्यक्तिर्नाश्रीयते । सर्वेषां व चिदुप- दिष्टत्वेनविशशेषणत्वात् । यत्तु प्रत्ययेन विशेष्टव्यमिति। तदन्य- थैव विशेपसिद्धेरसंबइ।आरोपणमात्रमेव शोभते । तथा च ॥ यद्यप्यधषु च कथं । प्रत्ययेन विशेषणम् । तथापि नैव मुच्येयं सर्वासां ग्रहणादिह ॥ सर्वा ह्यध्ययनस्येन ब्रह्मयज्ञाश्रितेन च। वाचस्तोमश्विनावस्थागतेन विहिता द्वि तः ॥ अतो नैवेदमाशक्यमाख्यातेन विशेषणम्। सर्वप्रत्यय एव स्यात्कृतेपि दि विशेषणे ॥ तस्मादर्थापत्तिप्रतिबन्धमात्रेणेव प्रकृतप्रत्ययसिद्भिः। लिङ्गसमस्यानाभ्यां भक्षार्थता ऽनुवकस्य ॥ २५ ॥ समस्तानुवाकोदाहरणं कानि पदानि के समर्थानीति व ब्यमाणविषयविवेकार्थम्। अत्र स्तवकवदेव प्रातःसवना दिशब्दस्तत्समानाधिकरण्यसंस्ततश्च वसुमङ्गणदयो गायत्र- छन्दःप्रभृतय इन्द्रपातादयश्च क्रमेण यथासवनं निष्कृष्य प्र- योक्तव्यः । इदं तु विचर्यते किं समस्तो ऽनुवाको भक्षणएव विनियोक्तव्यः । उत ग्रहणवेक्षणमस्यग्जरणेष्वपि यथालिङ्ग (१) तथेति २ पु० पाठः ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६३
दिखावट