शाब्दनिर्णयः।
७१
"नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥"
इति स्मृतेर्ज्ञाननिवर्त्यं च । तस्मादज्ञानमेव तत् ।
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति॥
इति स्मृतिरज्ञानमेव व्यवधायकं दर्शयति । नन्वज्ञानं कस्य कस्मिन्निति वीक्षायां जीवस्य ब्रह्मणीति वक्तव्यम् । ततश्चाज्ञानमन्तरेण जीवब्रह्मविभागायातिरेकः कल्पयितव्यः । तन्न । अतिरेकेऽपि द्वयापेक्षायाः कस्य कस्मादिति तुल्यत्वादतिरेकोपलक्षितस्य [१] जीवत्वे तस्य च ज्ञानान्निवर्त्यत्वेऽज्ञानपक्षान्न विशिष्यते । विशिष्टस्य जीवत्वेऽनिर्मोक्षः । अतो यत्- किञ्चिदेतत् । नापि धीमात्रमेव जीवोपाधिः । तदप्रतीतावपि सुषुप्ते जीवप्रतीतेः । तस्मादविद्यैव भेदिका । सा चापरोक्षज्ञानादेव कात्स्न्येर्न निवर्तते ॥ ७० ॥
तच्चापरोक्षज्ञानं शब्दादेवेत्यत आह –
विषयोत्पन्नतः संविदैक्याद्वाज्ञानहानतः ।
स्वतः सिद्धेरतः शब्दादापरोक्ष्यं प्रजायते ॥ ७१ ॥
लोकेऽपि संवेदनस्य विषयोत्पन्नत्वाद् वा विषयस्य संविदैक्याद् वा विषयस्य चेतनप्रकृतिकतया स्वयमेव चेतनेनाभिन्नस्यावरणध्वंसाद् वा आपरोक्ष्यात् तन्निमित्तं ज्ञानमपरोक्षज्ञानमित्युच्यते । न ज्ञानस्य स्वतोऽपरोक्षतामात्रम्।[२]