पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/७४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

७०

शाब्दनिर्णयः।

तथा फलमपि ‘आचार्यवान् पुरुषो वेद', ‘तस्य तावदेव चिरमि’त्यादि । तथार्थवादोऽपि ‘अनेन जीवेनात्मनानुप्रविश्ये'- त्यादि । तथा ‘तस्मादेनं स्वपितीत्याचक्षते । स्वं ह्यपीतो भी भवती'त्यादिना, शरीरेन्द्रियाणामन्नमयत्वेनानात्मताप्रतिपादनेन च, तप्तपरशुग्रहणदृष्टान्तेन चोक्तब्रह्मात्मतासत्याभिसन्धस्य मोक्षकथनेन चास्यैवार्थस्योपपादनं क्रियते । क्वचिच्चावस्थात्रयवैलक्षण्येनासङ्गत्वोपपादनेन । एवं यतो वेदान्तवाक्येषु जीवस्य ब्रह्मात्मतायां वाक्यतात्पर्यलिङ्गानां[१] पण्णां समुच्चयो विकल्पो वा यथायोगं गम्यते, अतः परमात्मैवायं जीवः, शब्दस्य च स्वभावतोऽर्थपरत्वात् प्रत्ययपरत्वायोगात् ॥ ६९ ॥ न च प्रमाणान्तरविरोधः,अवद्योपाधिनिमित्तत्वाद् भेदव्यवहारस्येत्याह[२]

अविद्या भेदिकोपाधिर्नातिरेको न चापि धीः ।

द्वयापेक्षं[३] तु तुल्यत्वात् सुषुप्तादावदर्शनात् ॥७०॥

‘न तं विदाथ य इमा जजानान्यद् युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ती' त्यस्मिन् मन्त्रेऽन्यद् युष्माकमन्तरं बभूवेत्युक्त्वा किं तदन्तरमिति वीक्षायां नीहारेण प्रावृता इति नीहारस्य तमसो व्यवधायकत्वं गम्यते । तमश्च न बाह्यं, किं त्वान्तरम् । तच्च ‘नास- दासीन्नो सदासीत् तम आसीदि'त्यादिश्रुतेः सदसद्विलक्षणं, “अहमज्ञानजं तमः" ।


  1. ‘र्यस्य लि’ ख. ग. पाठः.
  2. ‘दादिव्य’,
  3. ‘वत्सापेक्षत्वतुल्य'