६४
शाब्दनिर्णयः।
अभिधानानवसानाज्जिज्ञासार्थाच्च जायते ।
प्रयोजनावसानाच्च पदार्थे सा निवर्तते ॥ ६३ ॥
अन्विताभिधायिनः शब्दादभिधेयैकदेशे सहकार्यभावादनवगतेऽभिधानमेवापर्यवसितमभिधेयैकदेशान्तरे जिज्ञासामुत्पादयति । क्वचिदर्थाच्च विश्वजिदादिषु जिज्ञासा जायते । उभयविधा[१] च प्रयोजनसमर्थसंसर्गसिद्धौ निवर्तत इति ॥ ६३ ॥ का पुनर्योग्यता जिज्ञासानिवर्तकत्वेनान्वयसामर्थ्यम्। कः पुनः सन्निधिः । अनन्वयिपदार्थान्तराव्यवधानेन बुद्धौ विपरिवृत्तिः । किमाकाङ्क्षादिसामर्थ्यात् पदानि युगपत् संसर्गबुद्धिमुत्पादयन्ति, किं वा क्रमेणापीत्यत आह-
संसर्गबुद्धिं शब्दाश्च क्रमेणैव वितन्वते ।
साकाङ्क्षक्रमसंसर्गबुद्धिदृष्टेः प्रयुक्तिषु ॥ ६४ ॥
गामित्युक्ते प्रकृतिप्रत्ययौ (अ)अगोव्यावृत्तं कर्मकारकं[२] बोधयन्तौ क्रियायां जिज्ञासामुत्पादयतः । आनयतिपदसन्निधानात् तु तत्सहकारिणौ पुनः क्रियया[३] संसर्गे प्रतिपादयतः। क्रमवत्संसर्गपदार्थाकाङ्क्षयोर्दर्शनात् । सकृत्प्रयुक्तस्यापि पदस्य सहकारिसन्निधाने स्मर्यमाणेऽरय पुनर्बुद्धिहेतुत्वोप- पत्तेः। तस्मात् सिद्धं पदानामन्विताभिधानसामर्थ्यात् संसर्गप्रतिपादकत्वम् ॥ ६४ ॥