४४
शाब्दनिर्णयः ।
षामुपलब्धिगोचरत्वात् । सा । चेत्थंभूताभिलषितसाधनज्ञाननिमित्तैव । कदाचित् साधनसामान्यज्ञानात् तद्विशेषजिज्ञासया प्रवर्तमानोऽपि तत एव प्रवर्तते, न फलमात्रज्ञानात् । ननु इष्टसाधनमप्यतीतादिभावेन १ गम्यमानं न प्रवर्तयति । सत्यम् । तस्य कालसम्बन्धज्ञानं प्रवृत्तिप्रतिबन्धकम्। ननु सिद्धे हेतुत्वे प्रतिबन्धकत्वकल्पना२। सत्यं, कालसम्बन्धज्ञानविकले कर्तुरभिलषितसाधनेऽवगते प्रवृत्तेरनवगते च तस्मिन्नप्रवृत्तेरन्वयव्यतिरेकज्ञानद्वयानुपपत्तिप्रभवयाऽर्थापत्त्याधिगतमेव तस्य प्रवृत्तिहेतुत्वम् । ननु सत्यपि तस्मिन् अशक्तो न प्रवर्तते। सत्यम् । कर्तृसामर्थ्यादिसाधनपौष्कल्ये सति यतो विषयविशेषज्ञानात् प्रवर्तते , तदेव प्रवृत्तिहेतुतया शब्दाभिधेयमिति कार्यवादिनाप्यङ्गीकर्तव्यं , तत्रैव शब्दसापेक्षतानियमात्। नन्वेवमपि कर्तुरभिलषितस्य साधनं कालविविक्तं कृतियोग्यतया कार्यमवगम्यमानं प्रवर्तयतीत्युक्तं भवति । तत्र कार्यतैव प्रवृत्तिहेतुः किं न स्यात् । फले प्रवृत्तिव्यभिचारादिति वदामः। तदपि हि सुखं दुःखनिवृत्तिर्वा साक्षाद् व्यधानेन वा ४ कृतियोग्यतया कार्यमित्यवगम्यते । न तत्र विशिष्टप्रवृत्तिरिच्छालक्षणैवेत्युक्तम् । तर्हि हितसाधनगतं कार्यत्वमेव प्रवृत्तिहेतुः । तन्न । विशेषणायोगात् । ननु हितसाधनमप्यतीतादौ न प्रवर्तयतीति कृतियोग्यताप्यवश्यापेक्षणीया । न । परिनिष्पन्नपदार्थांशज्ञानस्यापि साक्षाद् वा पर-
१. ‘विशिष्ट ’ ख. ग. पाठः २. न्धकल्प’ ख. ग. पाठः ३. ‘वा' ख. ग. पाठः ४. 'च’ ग. पाठः