पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

४३

शब्देभ्यो भूतार्थसंसर्गानुमानसिद्धिः । न चासौ संसर्गभ्रमः प्रत्यक्षवद् व्यवहाराविसंवादाद् अबाधात् । अन्यान्विते च शब्दकार्यदर्शनात् तावन्मात्रे सामर्थ्यं कल्प्यते, कार्यगम्यत्वात् सामर्थ्यस्य । ननु तावन्मात्रे शक्तिग्रहणाभावे कथं तत्र कार्यदर्शनम् । नैष दोषः, अन्यान्वितमपि सम्बन्धज्ञानसमये कार्यान्वयान्तर्वर्तितया वर्तते। कार्यदर्शनात् तु तावन्मात्रे सामर्थ्यं नियम्यते । नन्वनवधारिते प्रयोजके कथं कार्योत्पादः न, प्रयोजकान्तरं कल्पयतोऽपि कार्यवाक्याद् बुद्धिकार्यद- र्शनात् । सम्बन्धज्ञानसमये कार्यस्यापि विद्यमानत्वाद् बुद्धिकार्योपपत्तिरन्यान्वितपक्षेऽपि समाना । तस्माद् न कार्यान्विते सामर्थ्यम्, किन्त्वन्यान्वित इति सिद्धम्॥ ५१ ॥

अङ्गीकृत्य लिङादिशब्दानां कार्याभिधायित्वं प्रयो-

जकोपादानसामर्थ्यादन्यान्विते सामर्थ्यमित्युक्तम् । इदानीं तदेव नास्तीति प्रतिपादयितुमाह-

विशिष्टव्यवहारस्य हेतुर्नान्यो निदर्शने ।

इष्टाभ्युपायात् कार्यत्वं ह्यन्यथासिद्धबोधनम् ॥ ५२॥

व्युत्पत्स्यमानेन यत् स्वात्मनि प्रवृत्तिनिमित्तं समधि-

गतं, तदेव प्रतिपत्तुरपि प्रवृत्तिनिमित्तमनुमीयते । तच्च नेष्टसाधनज्ञानादन्यत् समधिगतम् । ननु फलज्ञानादपि प्रवर्तते। सत्यम् , इच्छालक्षणैव तन्निमित्ता प्रवृत्तिः, न विशिष्टस्वरूपा शरीरादिव्यापारात्मिका । सा हि प्रवर्तकानुमानबीजं परे-


१. 'पेयं का’ क. पाठ..