२१४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एवमुक्त्वा महातेजा रावणो लोकरावणः ॥ आगच्छत्सहसा क्रुद्धः सर्वसैन्येन संवृतः ॥ । ६ ।। संग्राममभिकाङ्गन्तं रावणं श्रुत्य भामिनी । तदोत्थाय ययौ देवी नाम्ना मन्दोदरीति सा ॥ ७ ॥ माल्यवन्तं करे धृत्वा यूपाक्षसहिता तु सा । मन्त्रिभिर्मन्त्रतवनैस्तथान्यैर्मत्रिसत्तमैः ॥ ८ ॥ राक्षसैरावृता सौंवेंत्रजलैरपाणिभिः॥ योषिद्भिश्चैव वृद्धाभिस्तथा कन्याभिरावृता ॥ ९ ॥ आयुधव्यग्रहस्तैश्च राक्षश्च समन्ततः ॥ सभां तु प्रस्थिता देवी यत्रास्ते राक्षसाधिपः ॥ १० ॥ छत्रेण ध्रियमाणेन अतिकायपुरस्सरा । चामरैर्वररामाभिर्वीज्यमाना खलङ्गता ॥ ११ ॥ शतार्धमार्ग विपुलं ध्वजमालोपशोभितम् ॥ उसारणं प्रकुर्वंद्रियेंत्रजलैरपाणिभिः ॥ १२ ॥ प्रविवेश सभां दिव्यां प्रभया द्योतमानया ॥ द्रष्टुं वै रावणं सा तु मयस्य दुहिता तु सा ॥ १३ ॥ प्राप्तां देवीं तदा राजा प्रियां मन्दोदरीं तदा ॥ दृष्ट्वा स संभ्रमाचूर्णं परिष्वज्य दशाननः॥ १४ ॥ मत्रिणां तु ततस्तेषामासनान्यादिदेश ह ॥ सौवर्णसुविचित्राणि सोपधानानि सर्वशः ॥ १५ ॥ तष्वासनोपविष्टेषु सुखासीनेषु मत्रिषु ॥ पर्युद्धे चोपविष्टा तु देवी मन्दोदरी सुखम् ॥ १६ ॥ अतिकायो महाबाहुः पितरं चाभिवाद्य तम् ॥ मातरं चाभिवाद्याथ तदाऽऽसनगतोऽभवत् ॥ १७ ॥ प्रहस्तवधसंतप्तो महाकायवधार्दितः । लङ्कायाश्चाभिमर्देन कषायीकृतलोचनः ॥ १८ ॥ संग्राममभिकाङ्कन्स आकुलेनान्तरात्मना ॥ अब्रवीद्वचनं सोथ महागंभीरनिस्खनम् ॥ १९ ॥ किमागमनकार्यं ते देवि शीघं तदुच्यताम् । तूर्णं मम समीपं वै किमर्थं त्वमिहाऽऽगता ॥ मत्रिभिः सहिता चैव ब्रूहि सर्वं यथातथम् ॥ २० ॥ एवमुक्ते तु वचने देवी रावणमब्रवीत् । विज्ञाष्यं शृणु राजेन्द्र याचे यवां कृताञ्जलिः ॥ २१ ॥ न हि रोषश्च कर्तव्यो वदन्त्या मम मानद ।। श्रुणुष्वैकमना मठं वचनं वाक्यकोविद ॥ २२ ॥ श्रुता मे नगरी रुद्धा श्रुता मे राक्षसा हताः ॥ धूम्राक्षप्रमुखा वीराः प्रहस्तेन सहैव तु ॥ २३ ॥ भवन्तं युद्धकामं च गमने कृतनिश्चयम् ॥ । इति संचिन्त्य राजेन्द्र ममागमनकारणम् ॥ २४ ॥ न युक्तं प्रमुखं स्थातुं युद्धे तस्य महात्मनः ॥ रामस्य च महेन्द्रेण यस्य भाय त्वया हृता ॥ लक्ष्मणस्य च राजेन्द्र यस्य नास्ति समो युधि ॥ २५ ॥ न च मानुषमात्रोसौ रामो दशरथात्मजः ॥ एकेन येन वै पूर्वं बहवो राक्षसा हताः । चतुर्दशसहस्राणि जनस्थाननिवासिनाम् ॥ २६ ॥ खरश्च निहतः सङ्ख्ये दूषणश्च महाबलः । त्रिशिराश्च महाबाहुर्हतो राक्षसपुङ्गवः ॥ २७ ॥ कबन्धश्च महातेजा विराधो दण्डके तथा ।। शरेणैकेन वाली च वानरेन्द्रो निपातितः । शॐ चैवं महाराजू मारीचस्य वधादहम् ॥ २८ ॥ पितुश्च वचनाद्रामो दण्डकारण्यमाश्रितः ।। ब्रह्मचर्यव्रते युक्तः सह भ्रात्रा वनेचरः ।। २९ ॥ तस्य भार्या जनस्थानावयाऽऽनीताऽविजानता । अकारणं कृतं तत्ते दोषाय समुपस्थितम् ॥३०॥ पतिव्रतावरोधस्तु दोषमावहते सदा ॥ न मधे रोचते बुट्टा एतेषां मन्त्रिणां तथा ॥ ३१॥ रामभार्या सती सा तु रामाय प्रतिदीयताम् । विभीषणेन चैवोक्तं पूर्वमेव महात्मना ॥ ३२ ॥ स गतस्तत्र वै राजन्नस्मत्काये करिष्यति । वस्त्राणि चैव रत्नानि प्रेषयाद्य रघूत्तमे ।। ३३ ॥ सीतां चैव महाराज सुवर्णं वाहनानि च ।। मणिमुक्ताप्रवालं च तथा रजतमेव च ।। ३४ ।। माल्यवान्गृह्य संयातु यूपाक्षश्च तथैवच । अतिकायस्तथा चायं कार्याकार्यविशारदः ॥ ३५ ॥
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१८
दिखावट