पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४०
श्रीवेङ्कटाचलमाहात्म्यम्


संद। शेषप्रियस्यस्य श्रीनिवासस्य शार्जिणः ।
द्वितीयदिवसे चर्चा भूयोऽभूच्छेषवाहनम् ॥ ४८

द्वितीयश्च तथा रात्रौ अभवद्वंसवाहनम् ।
तृतीयदिवसे चवें अंभवसिंहवाहनम् ॥ ४९

द्वितीयश्च तथा यानं रात्र मौक्तिकमण्डप१ ॥
चतुर्थदिवसे याने अदिमं वरुपभूरुहः ॥ ५०

द्वितीयमभवद्रात्रौ सर्वभूगलवाहनम् ।
पञ्चमे दिवसे चर्चा यानमदोलिकाऽभवत् ॥ ५१

इमृतसभ्दयिमोहिनीवेषधारिणः ।
द्वितीयं रजनी यादं वेदवेद्याय वै हरेः ॥ ५२

बभूव च स्वयं साक्षात् छन्दोमूर्तिः खगेश्वरः ।
आद्ये यानं षष्ठदिने हनूमानभवद्धरेः ॥ ५३

द्वितीयं सङ्गरगिरिः kयं यानमभूद्धरेः ।
महिषीसंयुभस्यास्य वसन्तोत्सवसगिणः ॥ ५४

तृतीयं रक्षनैौ यानं आप्तवैशकतो गजः। ।
सप्तमेऽभूद्दिने याने आधे भाकरमण्डलम् ॥ ५५

द्वितीयं मङ्गलगिरिः मायमासीद्मपतेः ।
रमणीयतमोद्याननिहारौरसवरागिणः । ५६

कुसुमापचयध्यममहिषीजनशालिनः ।
तृतीयं रजनैौ यानं अभवच्चन्द्रमण्डलम् ॥ ५७

अष्टमे दिवसे चा|चें अभवद्वाहनं ३रेः ।
नानाविधैरळरैः भण्डितः सुमहान् रथः ॥ ५८

द्वितीयं रजननैौ यानं अभूदुचैःश्रवा हयः ।
नवमे दिवसे चर्च यानमदोलिकाऽभवत् ॥ ५९