पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४४१
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


द्वितीये मलगिरिः यानमासीद्रमापतेः।
हारिदैः पिङ्गलैश्चूर्णः अभिषिक्तस्य मञ्जलैः ॥ ६०

समुद्युक्तस्यावभृथस्नानमाङ्गलिकोत्सवे ।
स इथं मङ्गलैश्चूर्णं हरिदैरभिषेचितः ॥ ६१

सुन्दरं मङ्गलगिरिं समरुद्य सभां गतिः ।
चैत्यं प्रदक्षिणीकृत्य सह सवैर्महाजनैः ॥ ६२

जपद्भिर्वेदिकान् मन्वन् सहितश्च द्विजोत्तमैः ।
चकरावभृथस्नानं भगवानादिपूरुषः ॥ ६३

स्वामिपुष्करिणीतीथे सर्वलोकैकपावने ।
अवतरदिने तस्मिन् नक्षत्रे श्रवणे प्रगे ॥ ६४

तृतीयं मङ्गलगिरिः यानं रखवभूत्ततः ।
ध्वजारोहणभिख्यः उत्सवोऽभूतद हरेः ॥ ६५

ततोऽपरेद्युरभवत् पुष्पयागमहोत्सवः ।
देशान्तरात् आगतनां सपर्थऽसीतो नृष्णम् ॥ ६६

देव जग्मुः स्वकं धाम राजानो राजसत्तम!।
जग्मुः स्वनगरं दिव्यं दृष्टं देवमहोरात्रम् ॥ ६७

ब्रह्म जगाम स्वं लोकं नस्व। वेङ्कटसुलभम् ।
समाप्य चोसवं सबै स राजा ताण्डमान् नृपः ॥ ६८

वायुदेवं नमस्कृत्य च|ऽज्ञामादाय मौलिना ।
स्वपुरं प्राध्य धर्मारमा कृचाऽब्रु वेङ्कटेशितुः ॥ ६९

संस्थाप्य पूजयामास स्वपुरे निजमन्दिरे ।
२ज्यं चकार धर्मात्मा सस्येन पृथिवीपतिः ॥ ७०

गोब्रामणहितार्थाय वातिथीनां हिताय च ।
सद्धर्मनिरतः शान्तो जितमन्युर्जितेनेद्रयः ॥ ७१