पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८०
श्रीवेङ्कटाचलमाहात्म्यम्


को स्वर्णखचिते मुक्ताराशिं प्रपूर्य च।
वस्त्रेण वेष्टयित्वाऽथ पूजां कृत्वा विधानतः ॥ ८७

प्रतिष्ठाप्य वरहस्य सन्निधौ प्राकृतो यथा।
स्वस्थानं पुनरागम्य श्रीनिवासः सतां गतिः ॥ ८८

कुबेरारीनिवासकृतस्वपरिणयार्थप्तणदानप्रकारः

अभोजनेन गन्तव्यं नारायणपुराह्वयम् ।
आकाशराजनगर’ मिति निश्चित्य चेतसि ॥ ८९

ब्रह्मणमब्रवीद्राजन्! वरया गमने रतः ।
श्रीनिवास:- 'विधेऽषेत्र नियुतां सेनां ते चतुरङ्गणीम् ॥ ९०

शीनिं गन्तुं चतुर्वक्त्र! नारायणपुरं प्रति ।
माभूत्काले वृथैवाल दूरोऽत्र ह्यस्य वर्तते ॥ ९१

बल सर्वं वने तात ! वृद्धबालवलन्तम् ।
शनैर्गच्छतु राजेन्द्र! मुनिमण्डलपूर्वकम् । ॥ ९२

स तस्य वचनं श्रुत्वा चक्रपणेश्चतुर्मुखः ।
वचनं व्याहच्छत्रं पितरं पुरुत्तमम् ॥ ९३

ब्रह्मा -


कृत्वा पुण्याह्नकर्माणि प्रतिष्ठाध्य कुलेश्वरीम् ।
नोपधासेन गोविन्द! गन्तव्यमिति मे मतिः ॥ ९४

मुनयः क्षुधिताः सर्वे बालवृद्धादयस्तथा।
वदत्येवं चतुर्वक्त्रे चक्रपाणिरभाषत ॥ ९५

श्रीनिवासः -

वचनानि महार्हाणि तव पुत्र ! पितामह !।
कथं कार्यमार्यश्च नैव जानासि पुत्रक ! ॥ ९६