पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८१
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


देशक लावणलेच्य भाषसे चालिशो यथा।
द्रव्याणामयुतं तात ! गते मे कानने गिरौ ॥ ९७

एवं व्ययं समापनं कथं पश्यसि चक्षुषा ।
ज्ञात्वाऽपि रिक्ततां वाचा त्वेवमुक्ते कथं भवेत् ?॥ ९८

वदत्येवं स्वपितरि ब्रह्मा लोकपितामहः।
तूष्णीमभून्महाराज ! भगवपुरतस्तदा ॥ ९९

नीलकण्ठोऽब्रवीद्वाक्यं पितरं स्वपितुस्ततः।
नीलकण्टः -

'श्रोतव्यं वचनं तात! मम बालस्य मधन ! ॥ १००

विवाहकरणे देव! तथा भवनकर्मणि।
प्रारब्धस्यान्तपर्यन्तं यो हि यतं समाचरेत् ॥ १०१

स एत्र पुण्यवान् लोके कीर्तिमेति न संशयः ।
सम्पाद्यः सर्वसम्भारा’ शुभकार्येषु पुष्कलाः ॥ १०२

बहुलार्थव्ययेनापि तद्भवे वृणं चरेत् ।
स शम्भुवचनं श्रुत्वा शम्बरारिपितऽब्रवीत् ॥ १०३

श्रीभगवान्- 'सभायां किमिदं प्रोक्तं पुरुषेण वच शिव!।
को वध ऋणदाताऽति बिवहस्यस्य पुष्कलम् ॥ १०४

पुरुषः पैौर्यं यन्नं आचरेनैव भाषयेत् ।
एवमुक्ता शिवं प्राह कुवेरें पुरुषोत्तमः ॥ १०५

श्रीभगवान् ‘निमितं वर्तते किञ्चिदित एहि धनाधिप!।
इत्येवमुक्तो धनदः पितामहसमन्वतः ॥ १०६

समुत्तस्थौ सभामध्यात् त्वरितं शिवसंयुतः।
ब्रवण। स कुबेरेण शङ्करेण रमापतिः ॥ १०७