पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
श्रीब्रह्मोत्तरखण्डे प्रथमोऽध्यायः

 मामाश्रितस्य मम च पापं राजपुरोधसः ।
 यथा सिद्ध्यति तन्मे वं वद लोकपितामह !' ॥ २६

श्रीसूतः
 'ब्रह्मा तदाऽब्रवीदेनं वसिष्ठं मुनिसत्तमम् ।
 प्रायश्चित्तापनोद्यानि पापानीत्यवधारय' ॥ २७

वसिष्ठः
 मुनिर्ब्रह्माणमवदत् 'स्वामिंस्तच्छृणु साम्प्रतम् ।
 मम तस्य च पपानि घनानि बहुलानि च ॥ २८

 प्रायश्चित्तैर्न नश्यन्ति तस्मात्त्वामागतोऽस्म्यहम् ।
 नमस्करोमि धर्मात्मन् ! त्वामेव शरणं गतः ॥ २९

 आवयोरल्पयत्नेन नश्यन्ते पापराशयः
 येन दृष्टं फलञ्च स्यात् तमुपायं वदस्व मे' ॥ ३०

ब्रह्मऽ...या श्रीवेङ्कटाचलं प्रति वसिष्ठाद्यागमनम्



सूतः
 इति पृष्टस्ततो ब्रह्मा विचार्य हृदये हरिम् ।
 वेङ्कटेशं नमस्कृत्य वसिष्ठमिदमब्रवीत् ॥ ३१

ब्रह्मा-

 काश्या दक्षिणदेशे वै कश्चिदस्ति महीधरः ।
 वेङ्कटाद्रिरिति ख्यातो विश्वलोकैकसम्मतः ॥ ३२

 श्रीवेङ्कटेति यन्नाम मर्त्यो वाचा वदन्नपि ।
 देवानां वन्दनीयत्वं याति तादृङ् महीधरः ॥ ३३

 तत्र तीर्थानि सर्वाणि सर्वपापहराणि च ।
 षट्षष्टिकोटितीर्थानि विद्यन्ते वेङ्कटाचले ॥ ३४