स्वामितीर्थमिति ख्यातं सर्वतीर्थोत्तमोत्तमम् ।
तत्तीरे दूक्षिणे विष्णुः ल्क्ष्म्या सह विमोदते ॥ ३५
अगस्त्यशङ्खणादीनां अभीष्टवरदायकम् ।
वेङ्कटेश नमस्कृत्य दृष्टादृष्टञ्च विन्दति ॥ ३६
तस्य वेङ्कटशैलस्य मध्ये घोणमिति स्मृतम् ।
एकं तीर्थं पवित्रं वै तत्र स्नातः शुचिः सदा ॥ ३७
मीनसंस्थे सवितरि पौर्णमास्यां महातिथौ ।
घोणस्नानेन सर्वाणि नश्यन्ति दुरितानि हि ॥ ३८
त्वदाश्रितस्त्वञ्च तत्र गत्वा वेङ्कटभूधरे ।
मीनमासे पैौर्णमास्यां स्नातौ पूतौ भविष्यथः' ॥ ३९
इत्युक्तवन्तं ब्रह्माण नमस्कृत्याऽथ हृष्टधीः ।
अवरुह्य ब्रह्मलोकात् अत्यन्तं त्वरयाऽन्वितः ॥ ४०
सर्वाबद्धमुपागम्य वसिष्ठो वाक्यमब्रवीत् ।
'रेरे ब्राह्मण! मां नित्यं आश्रितोऽसि सदा वदन् ॥ ४१
त्त्वत्पापपरिहाराय किञ्चिद्वक्ष्यामि तत्च्छृणु ।
गच्छामि वेङ्कटगिरिं एहि शीघ्रं मया सह' ।
इयुक्तमात्रो विप्रोऽसौ तेन सार्धं जगाम ह ॥ ४२
घोणतीर्थस्नानेन वसिष्ठादीनां पापनिवृत्तिः
सब्राह्मणो वसिष्ठोऽसौ वेङ्कटचलम...यिवान् ।
शुकस्य वरदं कृष्णं सुवर्णमुखरीतटे ॥ ४३
दृष्ट्वा प्रणम्य पश्चात्स वेङ्कटाचलमूलगः ।
कपिलाख्ये कृतस्नानः तीर्थे पापप्रणाशने ।
आरुह्य वेङ्कटं शैलं स्वामिपुष्करिणीं ययौ ॥ ४४