पुटमेतत् सुपुष्टितम्
७
॥ मालविकाशिभित्रम् ।
- बकु° 1अथ्थि देवीए वण्णावरो भादा वीरसेणो णाम । सो भट्टिणा अन्तपालदुग्गे मन्दायणीदीरे ठ्ठाविदो। तेण सिप्पाहिआरे जोग्गा इअं दारिएत्ति भइणीए उवाअणं पेसिदा।
- गण°। आत्मगतम्। आकृतिप्रत्ययादेनामनूनवस्तुकां संभावयामि।
- प्रकाशम् । मया भद्रे यशस्विना भवितव्यम् । पश्य । 5
- पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
- जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥
- बकु° ।2अह कहि वो सिस्सा ।
- गण° । इदानीमेव पञ्चाङ्गमभिनयमुपदिश्य विश्रम्यतामित्यभिहिता दीर्घिकावलोकनगवाक्षगताग्रवातमासेवमाना तिष्ठति ।
- बकु° ।3 तेण हि अणुजाणादु मं अज्जो । जावसे अज्जपरितो सणिवेदणेण उछाहं वढ्ढेमि ।।
- गण° । दृश्यतां सखी । अहमपि लब्धक्षणः स्वगृहं गच्छामि ।
इति निष्क्रान्तौ ।15
॥ विष्कम्भकः ॥
- १. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम । स भर्त्रान्तपालदुर्गे मन्दाकिनीतीरे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भगिन्या उपायनं प्रेषिता ।
- २. अथ क्व वः शिष्या ।
- ३. तेन ह्यनुजानातु मामार्यः। यावदस्याः आर्यपरितोषनिवेदनेनोत्साहं वर्धये ।
|
|