पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
कुमारसम्भवे


हर्षाश्रुभिः सह (७)[१]समस्तदिगीश्वराणां
(१)[२] शोकोष्णबाष्पसलिलै: सह दानवानाम् ॥५०॥
शक्तया (२) [३]तासुमसुरेश्वरमापतन्तं
कल्पान्तवात(३)[४]इतभिन्नमिवाद्रिश्रङ्गम्।
दृष्टा (४)[५]प्ररूढपुलकाञ्चितचारुदेहा
देवाः प्रमोदमगमं(५) [६]स्त्रिदशेन्द्रमुख्याः ॥ ५१ ॥

प्रमाणं जालैः पुजैः स्नसंक्रान्तैरिति भावः । कष्टभिः। उद्योतितम् उद्दीपितम् अम्बरं गगनं तथा दिशम् आशनाम् अन्तरम् अवकाशः यत्र तत् यथा तथा तस्य महत: असुरस्य दैत्यस्य तारकस्य सम्बन्धिनि हृदि वक्षःस्थले समस्ताः समग्राः ये दिशां पूर्वादीनाम् ईश्वराः पतयः तेषां सम्बन्धिभिः, हर्षस्त्र आनन्दस्य प्रभृभिः बाणै: सह तथा दानवानाम् असुराणं सम्बन्विभिः शोकेन उष्णेः उत्ततेः बाष्पसलिलैः नेत्रजलैः सह पपात पतित ॥ ५० ॥

 शतयति ॥ त्रिदशेन्द्रः देवेन्द्रः सुख्यः प्रधानं येषां तथोक्ताः देवः सुराः। कट भूतr: । आपतन्तम् थभ्यागच्छन्तम् असूरै वरं तारकम् । कर्म। शतया शतिसंशकास्त्रेण हताः नाशं प्रापिता: असवः प्राणाः यस्य तादृशम् । अतएव कल्पान्तव प्रलयकालस्य यः वातः पवनः तेन हतं ताड़ितम् अतएव मित्रं भेदं प्राप्तम् अद्भः पर्वतस्य शुद्धं शिखरमिव दृशा निरीक्ष्य प्ररूढपुलकः सन्नतरोमाचेः चारवः मनोहराः देवः शरौराणि येषां तादृशः सन्सः प्रमोदम् आनन्दम्। कर्म। 'अगमन् प्राप्तवन्तः ॥ ५१ ॥


  1. समग्र ।
  2. शोकोव ।
  3. तासुम्, अथ तारम् ।
  4. इति ।
  5. प्ररूढपुलकाञ्चित, अवरूद्रपुलकाञ्चित।
  6. त्रिदिवेषमुख्याः।