संसदमः सर्गः । यवापतत्स दनुजाधिपतिः परासुः (६)संवर्तकालनिपतच्छिखरीन्द्र (७) तुल्य: । तत्रादधात् फणिपतिर्धरणी फणाभि- स्तहूरिभारविधुराभिरधोव्रजन्तीम् ॥ ५२ ॥ स्वर्गापगासलिलसीकरिणी समन्तात् सौरम्यलुब्धमधुपावलिसेव्यमाना। कल्पद्रुम प्रसवदृष्टिरभून्नभस्तः शम्भोः सुतस्य शिरसि चिदशारिशत्रोः ॥५३॥
यत्रेति ॥ स दनुजाधिपतिः दैत्यराजः। कर्ता । परासुः गतप्राणः। अतएव संवर्तस्त्र प्रलयस्त्र काले समये निपतता पतनं गच्छता शिखरीन्द्रेण शैलेन्द्रण तुल्यः सदृशः सन् यव स्थले अपतत् पपात, तत्र स्थाने फाणनां सर्पाणां पतिः राजा घनन्तः। कर्ता। तस्य तारकासुरस्य यः भूरिभारः प्रभूतगौरवं सेन विधुराभिः कालराभिः फणाभिः आभोगेः । करणैः । अधो- जन्तों पातालं गच्छन्तों धरणीम् । कर्म । अदधात् दधार ॥ ५२ ॥
स्वर्गेति ॥ कल्पद्रुमाणां कल्पपादपानां सम्बन्धिनौ प्रसव- दृष्टिः कुसुमवषणम् । कर्यो । स्वर्गस्य आकाशस्य या अपगा नदी मन्दाकिनी तस्याः सलिलानां जलानां सीकराः कणा: सांन्त यस्त्राः तथाभूता । तथा समन्तात् चतुदिन सौरभ्येण सौगन्ध्येन लुब्धा लालुपाः याः मधुपावलय: भ्रमरश्रणयः ताभिः । कर्त्राभिः । सेव्यमाना अनुस्रियमाणा सती नभस्तः गगनात् त्रिदशानां सुराणां सम्बन्धिनः अरेः शत्रोः तारकासु रस्य शत्रोः हरस्य सुतस्य तनयस्य कार्तिकेयस्य सम्बन्धिनि
शिरसि मस्तके अभूत् पपात ॥ ५३ ॥
(६) संवर्तवात | (७) कल्पः । २५