तदिति । प्रक्षुब्धस्य रोषान्वितस्य। प्रलयकालनस्येति भावः । वारिधरस्य जलदस्येव धीरः गभीरः धन: निविड़ख घोषो यस्य तथाभूतः। तथा दलितस्य चूर्णितस्य अखिलस्य समस्तस्य शत्रुसैन्यस्य अरिसेनायाः मांसेन, अस्थिभिः, शोणितविपडून रक्तकर्दमेन च विलुमानि चक्राणि चरणानि यस्य तादृशः ? अतएव चण्डः प्रचण्डः तस्व तारकासुरस्य सम्बन्धी स्यन्दनः रथः । कर्ता। सपदि तत्क्षणमेव । न तु विलम्बेनेति भावः। सारथिना सूतेन तारकस्येति शेषः । कत्र । संप्रणुनः प्रेरितः सन् चचाल जगाम ॥ १० ॥
दृष्टुति । सुराणां देवानां राज्ञः अधिपस्य सैन्यं सेना। कटें । प्रलये कल्पान्तसमये जातेन वातेन पवनेन चलतः गिरौद्रात् पर्वतराजात् ईषदूनम्। तथा दलन्ति चूर्णीभवन्ति यानि बलानि सैन्यानि तेषां य: विरावः आर्तनादः तेन विशेषरौद्रम् अतिभयङ्करम्। तथा अभ्यागतं समुपस्थितं. सुराणां देवानां रिपोः अरे तारकस्य सस्यन्धिनं रथं स्यन्दनम्।