पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
द्वादशः सर्ग ।


क्रमेण (६)[१]चान्येऽपि विलोकनेग
साविताः सञ्जितामौश्वरेण।
(७)[२] उपावितोषबिशेषमाप्ता
दृग्गोचरे तत्र (८)[३]सुराः समग्रः ॥ ३३ ॥
अथाह देवो बलवैरिमुख्यान्।
(९)[४]गीर्वाणवर्गान् करुणार्द्धचेताः ।

वतीया। उपनीते आनौते हेममये सुवर्णनिर्मिते शुभं यत् आसनं तस्मिन्। आधारभूते । पुरस्तात् प्रभोः सम्मु,खे एव उपविश्य थित्वा प्रकृष्टा या मुल् हर्षस्तां प्राप गतः। तस्य दृढीकरणथं सामान्येन विशेषसमर्थनरूपमर्थान्तरं न्यस्तुति हीति । तथाहि । प्रभोः । कर्तुः। प्रसादः अनुग्रहः कस्य जनस्य अनुगस्येत्यर्थः । मुदे सन्तोषाय न, अपितु सर्वस्यैव सन्तोषाय भवतीत्यर्थः । प्रभुप्रसाद अनन्दोत्पादक इति भावः ॥ ३२ ॥

 क्रमेणेति । अन्येऽपि इद्व्यतिरिक्तः समग्रः सकलः सुरा: देव ईश्वरेण हरेण । कर्मा। सस्मितम् ईषदस्यसहितं विलोमेन यथा तथा । अनेन प्रभोः प्रसादलक्षणं सुयते । अतएव दृळ्या प्रभावितः आदृताः सम्मानिता इत्यर्थः । प्राप्ताः तोषस्य वर्षस्य विशेषम आधिक्वम् आप्तः सन्तः मण अनुक्रमतः तस्य ईलरस्य दृशोः दृध्योः गोचरे विषये सम्मु खमित्यर्थः। उपाविशन् स्थितवन्तः ॥ ३३ ॥

 अथेति । अथ देव सुपवेशनानन्तरं देवः शिवः। कर्ता। बलस्य बलासुरस्य वैरी अरिः इन्द्रः मुख्यः अग्रगण्यः येषां तथोकान् इन्द्रप्रभृतीनित्यर्थः। गीर्वाणणां देवानां ये वर्णाः


  1. अन्येन
  2. उपाविश्वः।
  3. पुरः समेताः ।
  4. गौर्वाणमुख्यान्।