पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
कुमारसम्भवे


इति बहुविधं बालौड़ाविचित्रविचेष्टितं
ललितललितं साद्रागन्तुं मनोहरमाचरन्।
बलभत परां (१)[१]बुहि षष्ठे दिने नवयौवनं
स किल सकलं शास्त्रं शस्त्रं विवेद (२)[२]विभुर्यथा ॥५०॥

कदाचित् कस्मिंश्चिदपि समये इत्यर्थः । दिवानिशं दिवारात्तं न अविदतां दिवानिशं न बुद्धवन्तावित्यर्थः । युवतीवानन्दविदलत्वादिति भावः ॥ ४९ ॥

 इतीति । इति एवंभूतं बहुविधं विविधप्रकारं ललितललितं ललितप्रकारम्। प्रकारे गुणवचनस्य द्विर्भावः। अतिमनोहारीत्यर्थः । सान्द्रानन्द सान्द्रः घनः आनन्दो यत्र तथोक्त मनोहरं चित्तहरि थालक्रौड़ायाः बायलीलायाः सम्बन्धि विचित्र अहतं विचेष्टितं विहरं चरित्रमिति यावत चेष्टामित्यर्थः आचरन् विभुः कार्यकुशलः स ध४ । कुर्वन् सतः दिने पराम् उत्कृष्टां बुद्धेि धिषणां प्रक्षामित्यर्थः । नवयौवनं तारुण्यञ्च अलभत प्राप्तवान् । यया बुवा प्रशबलन सकती सर्वे शास्त्र' व्याकरणादीनि शास्त्राणीत्यर्थः। शस्त्रं धनुर्विद दौनि शस्त्राणीत्यर्थः। जातावेकवचनम् । विवेद किल वानेव । किलशब्दोऽत्रावधारणार्थः । पूर्वत्रार्जितसंस्का वशादिति भावः । हरिणच्छदः ॥ ५० ॥

इति श्रीक्षेत्रमोहन तया मोहिनीसमाख्यया व्याख्यया

समेतः श्रीकालिदासकृतौ कुमारसंभवे महा-

काव्ये कुमारोत्पत्तिर्नाम एकादशः सर्गः ।


  1. वृद्धिम्।
  2. विभोरपि ।