पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
कुमारसम्भवे


त्व' मया प्रियसखीसमागता
श्रोष्यतेव वचनानि पृष्ठतः ॥ ५९ ॥
रुद्वनिर्गमनमा दिनक्षयात्
पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
एतदुद्भिरति (१)[१]त्रिचोदिता
दिग्रहस्यमिव (२)[२]चन्द्रमण्डलम् ॥ ६० ॥
पश्य पक्वफलिनीफलत्विषा
विम्बलाञ्छितवियत्सरोऽम्भसा।

मन्दराद्रिव्यवहितमण्डलेन शशभृता चन्द्रेण पृष्ठतः पश्चाद्भागे वचनानि श्रोष्यता। श्रोतु स्थितेनेत्यर्थः मया प्रियसखौसमागता प्रियसखीभिः आवृता त्वमिव लक्ष्यते ॥ ५८ ॥

 रुखेति । दिक् पूर्वदिक्। नायिका धन्यते । आ दिनदायादा सायं रुद्धं निर्गमनं निःसरणं यस्य तत्तथोक्तम् । अन्यत्र बहिरप्रकाशितमित्यर्थः तनुचन्द्रिकास्मितमिव तनुचन्द्रिकामितं पूर्वदृष्टं यस्मात्तत्तथोक्तम् । एतत् चन्द्रमण्डलं नर्म रइस्त्रं गोप्यर्थमिव रात्रिचोदिता राव सख्येव प्रेरिता सती त्यर्थः । उद्भिरति प्रकाशयति। यथा काचिदा सायं मनस्विनी गूहितमभिलाषं प्रदोषे संख्या मखं बूझौति निर्बन्धात् पृष्टा सती प्रकटयति तद्वदित्यर्थः ॥ १० ॥

 पश्येति । यवफलिनीफलत्विषा उदयरागाद् विच्वाभ्यां प्रतिविस्वभ्यां लाञ्छिते चिक्षिते वियतरोऽम्भव येन तथोक्तेन हिमांशुना विप्रश्चाटं विवरम् अन्तरालं यस्य तसथोम् अतिदूस्खमित्यर्थः चक्रवाकमिथुनं विडम्बते अनुक्रियते


  1. चन्द्रमक्षम्
  2. रात्रिरोदितम्।