खमिति ॥ रवौ संस्थिते अस्तमिते सति खं व्योम प्रसुप्तमिव निप्रकाशत्वात् निद्रितमिव । स्थितमित्यर्थः । युज्यते । चैतदित्याह—महतः तेजसः ईदृशी वक्ष्यमाणप्रकारा गतिः। स्वभाव इत्यर्थः । तां गतिमेवाह-तदिति । तत् महत्तेजः उत्थितं सत् यावत् । स्थानमिति शेषः । प्रकाशयति। तावता अधयुतं सत्। तत्स्थानादिति शेषः । मीलनाय सङ्कोचय खलु भवति । यत्र स्थाने तेजस्तिष्ठति तप्रकाशते इति स्थितिः। यतो गच्छति न तत्प्रकाशते । अतः सूर्यापाये खं प्रसुप्तमिवेति युक्तोमी क्षेति भावः । अस्यार्थस्य तेजोमात्रसधारण्येऽपि महति स्फुटमिति महग्रहणं कृतम् ॥ ४३ ॥
सध्ययेति । सन्ध्ययापि अस्तशिखरे अस्ताद्रिक्षृङ्गे समर्पितं निहितं वन्यं रवेर्वपुः अनुगतम् अन्वगामि । प्रसंयुतं रविमन्वगादिति भावः । युक्त चैतदित्याह-प्राक् पूर्वम् उदये तथा तेन प्रकारेण पुरुस्कृता अग्रतः कृता। पूजिता चेति गम्यते । प्रातः सूर्योदयाप्रगेव सध्यागम इति द्वि प्रसिद्धम् ।