पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
कुमारसंभवे


आश्रमाः (४)[१]प्रविशदग्निधेनवः
बिभति श्रियमुदीरिताग्नयः ॥ ३८॥
बद्धकोशमपि तिष्ठति क्षणं
सावशेषविवरं कुशेशयम्।
षट्पदाय वसतिं ग्रहीष्यते
प्रौतिपूर्वमिव (५)[२]तुमन्तरम् ॥ ३९ ॥
(६)[३]दूरलग्नपरिमेयरश्सिना
(७)[४]वारुणी दिगफणेन भानुना ।
भाति केसरवतेव मण्डिता
(८)[५]बन्धुजीवतिलकेन कन्यका ॥ ४० ॥

मरः । उपान्वध्यध्वम:” इति कर्मत्वम् ॥ गेः । तथा मूलन सेकेन सेचनेन सर से: सद्वै: वृक्षकै: च उपलक्षिताः । अल्प कप्रत्ययः । प्रविशन्यः वनदगन्थः अग्निधेनवः अग्निही । नार्था धेनवः उदौरिताग्नयश्व आश्रमाः श्रियं बिभ्रति ॥३८॥

 बहुकोशमिति । बद्धकोशमषि। मुकुलितमपीत्यर्थः कुशेशयम् ॥ कटें ॥ “शतपत्रं कुशेशयम्” इत्यमरः । वसति ग्रहोष्यते । स्थितिं करिष्यत इत्यर्थः । “चटः सङ्ग’ इति शd प्रत्ययः । षट्पद।य प्रौतिपूर्वम् अन्तरम् अवकाशं दातुमिचे क्षणं सावशेषविवरं तिष्ठति ॥ ३८ ॥

 दूरलग्नेति । वारुणी दिक् प्रतौचौ दूरं लग्नाः अतए । परिमयः अल्पावशिष्ट रश्मयः यस्य तेन तथोत न अरुणेन लोहितवर्णेन भानुना केसरवता किञ्जल्कवता बन्धुजीवं बन्धं


  1. प्रविशदग्नामधेनवः ।
  2. दातुमुत्तरम् ।
  3. दूमग्नपरिमेयरश्मिना।
  4. वारुण ।
  5. बन्धुजौबकुसुमेन ।