पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८९
प्रथमः सर्गः ।


योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।
अनाद्यत्तिभयं यस्य पद्माहुर्मनीषिणः ॥७७॥
स ते दुहितरं साक्षात्साको विश्खस्य कर्मणाम्।
वृणुते वरदः शम्भुरस्मत् (६) [१]संक्रामितैः पदैः॥७८॥
तमर्थमिव भारत्वा सुतया योक्तमर्हसि ।
अशोच्याहि पितुः कन्या (७)[२]सद्भर्तृप्रतिपादिता ॥७९॥
यावन्येतानि भूतानि स्थावराणि चराणि च।
मातरं कल्पयन्नामशो हि (८)[३]जगतः पिता ॥८०॥

योगिन इति योगिनः अध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्चरं सर्वभूतान्तर्यामिनम्। परमात्मस्वरूपिणमित्यर्थः। ‘क्षेत्रं पत्नीशरीरयोः’ इत्यमरः । यं शथं विचिन्वन्ति मृग थन्ते। मनीषिणो विद्वांसो यस्य शम्भोः पदं स्थानमविद्यामा गमावृत्तः पुनः संसारापत्तेर्भयं यत्र तत्तथाभूतमाहुः ॥७७॥

 स इति ॥ विश्खस्य जगतः कर्मगणां साक्षी द्रष्टा । सात्ताइष्टरि संज्ञायाम्” इतीनिप्रत्ययः। वरानिष्टददातीति वरदः। “आतोऽनुपसर्गे क: ” इति कप्रत्ययः । स पूर्वतः शम्भुरस्मतृसंक्रामितैः पदैः अस्मासु निवेशितैर्वाक्श्रीः ते दुहितरं साक्षाद् वृणुते । अस्मान्म खेन स्वयमेव याचत इत्यर्थ: ॥ ७८ ॥

 तमिति । तं शम्भु भारत्या वाचर्थमभिधेयमिव सुतया दुहित्रा योक्त’ सङ्कटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थाच्छिवयोर्नित्ययोगो विवक्षित इत्य तम् "वागर्थाविव संपृक्तौ” (रघुवंशे १।१) इत्यत्रापि । तथादि । सङ्गमें प्रतिपादिता दत्ता कन्या पितुरशोथा ॥ ७९ ॥

 गुणान्तरमप्याह---

 यावन्तीति । स्थावराणि । चराणि च यावन्ति एतानि


  1. संक्रमितैः।
  2. सङ्गतं ।
  3. अगताम् ।