पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
कुमारसम्भवे ।

प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम्।
चरणौ रञ्जयन्वस्याश्चूड़ामणिमरीचिभिः ॥८१॥
उमा बधूर्भवान्दाता याचितार इमे वयम्।
वरः शम्,रलं हृष त्वत्कुलोद्भूतये विधिः ॥८२॥
अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।
सुतासम्बन्धविधिना भव विश्खगुरोर्गे कः ॥८३॥
एवं वादिनि देवर्षौ पाश्र्वे पितुरधोमुख ।
लीलाकमलपत्राणि गणयामास पार्वतौ ॥८४॥

भूतानि। सन्तीति शेषः। सर्वाणि भूतानीत्यर्थः । एनांते दुहितरं मातरं कल्पयन्तु। हि यस्मादीशे जगतः पिता। पित्रदारेष माटभावो न्याय्य इति भावः ॥ ८० ॥

 प्रणम्यैत। विबुधा देवाः शितिकण्ठाय शिवाय प्रणम्य तदनन्तरं नीलकण्ठप्रणामानन्तरमस्याश्चरणौ चूड़ामणिमरौ चिभी रञ्जयन्तु । ईशखरपरिग्रहदखिलदेवतावन्द्य मवत्वि त्वर्य: ॥ ८१ ॥

 उमेति । उमा बधः । भवान्दाता। इमे वयं याचितार प्रार्थकाः। शर्वरो वोढ़ा। एष विधिरेषा सामग्रौ वत् लस्योइतय उच्छूयायालं पर्याप्तं हि । ‘नमःस्वस्तिस्त्राव स्वधा--' इत्यादिना चतुर्थी ॥ ८२ ॥

 अस्तोतुरिति । स्वयमन्यस्तोता न भवतीत्यस्तोतुः किम् स्तूयमानस्य सर्वस्तुत्य स्य वन्द्यस्य जगद्वन्द्यस्य स्वयमन्यं न वदः इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासम्बन्धविधिना यौन सम्बन्धाचरणेन गुरुर्भव। यो नान्य' स्तौति न वन्दते तत्राणि त्व' स्तुत्यो वन्द्यत्यहो तव भाग्यवत्त त्यर्थः ॥ ८३ ॥

 एवमिति ॥ वर्षावद्भिरस्येवं वादिनि सति पार्वती पिस् पाठेऽधोमुखी सती। लमयेति शेषः । लीलाकमलपत्रागि