पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५३
पञ्चमः सर्गः ।


(८)[१]करेण शम्भोर्वलयीयताहिना
सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥
त्वमेव तावत्परिचिन्तय स्वयं
कदाचिदेते यदि योगमर्हतः ।
बधूदुकूलं कलहंसलक्षणं
गजाजिनं शोणितबिन्दुवर्षि च ॥ ६७ ॥

आमुक्तमसञ्जितं विवाहे यत् कौतुकं हस्तसूत्रं तद्यस्य म तेऽयं करः॥ “कौतुकं मङ्गले हर्षे हस्तस्र कुतूहले” इति शाश्वतः ॥ वलयौरुताहिम भूषणेकतसर्गेण शम्भोः महादेवस्य करेण करणभूतेन। तदेव प्रथमं तप्रथमम् । अपरिचितत्वादतिभयङरमिति भावः । तच्च तत् अवलम्बनं ग्रहणं चेति कथं नु सहिष्यते । न कथञ्चिदपि सहिष्यत इत्यर्थः। अग्रतो यद्भावि तदूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः ॥६६॥

 त्वमेवेति । हे गौरि । त्वमेव स्त्रयम् आमना। तावदिति मानार्थे । यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदातं च गणव्याख्याने ॥ परिचिन्तय पर्यालोचय । किमिति । कलसलक्षणं कलहंसचिम् “चि लक्षम च लक्षणम्” इत्यमरः । बध्वा नवोढाया दुकूलं बधूदुकूलम् । “बधूः बुषा नवोढा स्न" इति विश्वः । तथा शोणितबिन्दून् वधतौतिं तथोक्तम् । आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवाससे। तत्पिनाकिन इत्याशयः । एते कदाचिज्जावपि योगं सङ्गतिमहतो यद्यर्द्धतः किम्। एतस्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणकाले बधवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवा सप्त पाणिपीडने तु दुकूलधारिण्यास्तव कथं सटिथत इति 'भावः ॥ ६७ ॥


  1. भुजेग।