पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२७
पञ्चमः सर्गः ।


विरोधिसत्वोजिभतपूर्वमत्सरं
द्रुमैरभीष्टप्रसवार्चितातिथि ।
नवोटजाभ्यन्तरसंभृतनलं
तपोवनं तच्च बभूव पावनम् ॥ १७ ॥
यदा फलं (८)[१]पूर्वतपःसमाधिना
न तावता लभ्यममंस्त काङ्कितम्।
तदानपेक्ष्य स्खशरीरमार्दवं
तपो महत्सा चरितुं प्रचक्रमे ॥ १८॥

समीयते न प्रमाणीक्रियते । सति धर्मज्यैष्ठे वयोज्यैठं न प्रयोजकमित्यर्थः । तथा च मनुः -“न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः” इति ॥ १६ ॥

विरोधीति  । विरोधिभिः सर्वगोंष्याघ्रादिभिरुज्झितपूर्वमक्षरं त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । दूमैरभीष्टप्रमवेनेष्टफलेनार्चिताः पूजिता अतिथयो यषिंस्तत्तथोक्तम् । नवानासुटजागां पर्णशालानामभ्यन्तरेषु संभृताः सञ्चिता अमला प्रश्नयो यस्मिंस्तत्तथोक्तं तज्ञ तपोवनम्। पावयतीति पावनं बभूव। अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः ॥ १७ ॥

 यदेति । सा देव यदा यस्मिन् काले तावता तावप्रमयेन पूर्वतपःसमाधिना पूर्वेणानुष्ठयभानप्रकारेण तपोनियमेन कादितं फलं लभ्य लब्धु शक्य नासंस्त । अशक्यमस्मंस्तत्वर्थः। तदा तत्काले । अविलप्वेनेत्यर्थः । शरौरख मार्दवं शूदुख' सौकुमार्यसमपाविगणय्य महत् दुश्चरं तपश्चरिततुं प्रपत्रम उपचक्रमे ॥ १८ ॥


  1. सर्वसमाधिसाधनम्।