पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
कुमारसम्भवे ।


अकारि तत्पूर्वनिबङ्कया तया
सरागमस्या रसनागुणास्पदम् ॥ १० ॥
विसृष्टरागादधरान्निवर्तितः
स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥
महार्हशय्यापरिवर्तनच्युतैः
खकेशपुष्पैरपि या स्म दूयते ।
अशेत सा बाहुलतोपधायिनी
निषेदुषी स्थण्डिल एव केवले ॥ १२ ॥

पूर्वं यथा तथा निबङ्कया तया मौञ्जयास्या देव्या रसनागुणस्या स्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितमकानि कृतम्। सौकुमार्यातिशयादिति भावः ॥ १० ॥

 विसृशष्टे । तया देव्या विसृष्टरागात्त्यक्तलाक्षारसरञ्जना दधरादधरोष्ठान्नीवर्तितः । निसृष्टरागात्” इति पाठे नितर त्यक्तलाक्षरागात् ॥ रागत्यागेन निष्प्रयोजनत्वादिति भावः तथा स्तनाङ्गरागेणारुणितादरुणीकृतात् । पतनसमये तस्य स्तनयोरुरोधादिति भावः । कन्दुकाच्च निवर्तितः। कुशाङ्कु राणामादनेन लवनेन परिक्षता व्रणिता आङ्गुलयो यस्य से तथोक्तः करः पाणिः अक्षसूत्रप्रणयी अक्षमालासहचरः क्वत ॥ ११ ॥

महर्हिति ॥ महानर्हि मूख्यं यस्याः सा महार्हा श्रेष्टा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैः भ्रष्टैः स्वकेशपुष्प रपि या देवी दूयते स्म क्लिश्यति स्म । पुष्याधिकसौकुमार्यादिति भावः । सा देवी बाहुलतामुपधत्त उपधानीकरोतीति बाहुल-