पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
तृतीयः सर्गः ।

स माधवेनाभिमते न सख्या
रत्या च साशङ्कमनुप्रयातः ।
घङ्गव्ययप्रार्थित(१) [१]कार्यसिद्धिः
स्थाण्खश्चमं हैमवतं जगाम ॥ २३ ॥
तस्मिन्वने संयमिनां मुनीनां
तपःसमाधेः प्रतिकूलवत ।
सङ्कल्पयोनेरभिमानभूत
मात्मानमाधाय मधुलुम् ॥ २४ ॥

  पमा। अथ न दत् तर्हि शेषात्व नग्न चिता । शेषादानं तु सन्दिग्धमिति ॥ २२ ॥

  स इति । स मदतोऽभिमतेन प्रियेण सख्या सुदा माधवेन वसन्तेन रत्या खदेव्या च श' सङटमपतितमिति सभयमनुप्रयाप्तः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्य सिद्धिर्येन स तथोशः। शौर्वा सुत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः। हैमवतं हिमवति भवं स्थाय रुद्राश्रमं जगाम ॥ २३ ॥

  तन्निति । तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तत इति प्रतिकूलवत विरोधी मधुर्वसन्सः ससूक्ष्मयोनेर्मनोभवस्याभिमानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः आत्मानं निजखरूपमाधाय सन्निधाय जगृभ प्रारुबभूव । वसन्तधर्मान् प्रवर्तयामासेत्यर्थः ॥ २४॥

 वसन्तधर्मानाह ----

  1. -कर्मसिद्धिः।