पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
नृसिहप्रसादे

नवम्यामेवैकवुरं दशम्यां द्विशफं बहु ।
एकादश्यां तथा रौप्यं ब्रह्मवर्चस्विनः सुतान् ।
द्वादश्यां जातरूप्यं च रजतं कुष्यमेव च ।
ज्ञातिज्ञेयं त्रयोदश्यां चतुर्दश्यां तु सुप्रजाः ।
प्रीयन्ते पितरश्चास्य ये शस्त्रेण रणे हताः ।

आद्धदः पञ्चदश्या तु सर्वान्कामान् समश्रुते। कात्यायन -

‘‘अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रतिपदि, द्वितीयायां
स्रजन्म, अश्वास्तृतीयायां, चतुर्यो जुद्रपशवः, पुत्राः पञ्चम्यां,
यूतं षष्ठ्याम् , कृषिः सप्तम्या, वाणिज्यमष्टम्यामेकशफं नवम्यां,
दशम्यां गावः, परिचारका एकादश्यां, धनधान्य—० हिरण्यं द्वादश्यां,
ज्ञातिश्रेष्यं त्रयोदश्या, युवानस्तत्र म्रियन्ते शस्त्रहताश्चतु
र्दश्याममावास्यायां सर्वपिति ।
तथा याज्ञवल्क्योऽपि

कन्यां कन्यावेदिनश्च पशून् वै तत्सुतानपि ।
धृत कृषि च वाणिज्यं द्विशफैकशफं तथा ।
ब्रह्ममर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रेष्ठौं सर्वकामान् प्राप्नोति श्राद्धदः सदा ॥
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ।

कन्यावेदिनो जामातरः। एतानि फलानि कृष्णपक्षप्रतिपदिप्रभु

तिष्वमावास्यापर्यन्तानि । अयं तिथिषु श्राद्धविधिर्न सर्वेष्वपरपक्षेषु
किंतु भाद्रपदपरपक्ष एव ।