पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
श्राद्धसारे श्राद्धदेशः

तथा गुरुः

‘काङन्ति पितरः पुत्रान्नरकाघातभीरवः ।
गया यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति ।
करिष्यति वृषोत्सर्गमिष्टापूर्न करिष्यति ।
पालयिष्यति वृद्धत्वे श्रद्धं दास्यति चान्वहम् ।
गयाय धर्मपृष्ठे च सदमि ब्रह्मणस्तथा ।
गयाशीर्षे वटे चैव पितृण दत्तमक्षयमिति ।

तथा ब्रह्माण्डेऽपि

‘नदीसमुद्रतीरे व हदे गोष्ठे च पर्वते ।
समुद्रगनदीतोये सिन्धुसागरसङ्गमे ।
नद्योघे सङ्गमे राजन् शलग्रामशिलन्तिके ।
पुष्करे वा कुरुक्षेत्रे प्रयागे नैमिषेऽपि वा ।
शालग्रामे च गोकर्णे गयाया च विशेषतः ।
तीर्थेष्वेतेषु यः श्राद्धं पितृभक्तिसमन्वितः ।
करोति विधिवन्मर्यः कृतकृत्यो विधीयत इति ।

तथा विष्णुरपि

‘गयाशीर्थेऽक्षयवटेऽमरकण्टकपर्वते ।

यत्र क्वचन नर्मदातीरे यमुनातीरे गङ्गायां विशेषतो गङ्गाकु

शावतें विल्वके नीलपर्वते उज्वले भृगुतुङ् केदारे महालये मल्लि
कायां सुगन्धायां फल्गुतीर्थे महगङ्गायां तण्डुलिकाश्रमे कुमारधरा
यां प्रमासे यत्र क्वचन सरस्वत्या विशेषतो नैमिषारण्ये वाराणस्या
मगस्त्याश्रमे कण्वाश्रमे कौशिक्यां सरयूतीरे शोणस्य ज्योतिरयोध्या