पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
श्राद्धसारे श्राद्धदेशः

शरीरोपचये इति तदुपचयार्थरसायनाद्युपचये वा जाते रसा
यनौषधादेः सिद्धो जताया वा । अर्थागमे वा जात इति । अर्था
पचये महालाभे निधिरूप्यादिलाभ इति यावत् ।
तत्र विष्णुधर्मोत्रे

“दक्षिणप्रवणे देशे तीर्थादौ वा गृहेऽपि वा ।
संस्कारादिसंयुक्ते श्राद्ध कुर्यात् प्रयत्नतः” इति ।

देवर्षिसिद्धतापसादिसेवितमुदकं तीर्थमित्यभिधीयते । गोमया

दिनोपलेपो भूसंस्कारः। आदिशब्देनाशुचिद्रव्यापसारणम् । त
दुक्तं मनुनाऽपि

‘शुचिदेशे विविक्ते तु गोमयेनोपलिप्य च ।
दक्षिणाप्रवणे चैव प्रयत्नेनोपपादयेत् ।
कृमिकीटाद्युपहतं देशं श्राद्धे विवर्जयेत् ।

तथा मार्कण्डेयः

‘वज्य जन्तुमयी रूक्षा क्षितिर्देष्टा तथाऽग्निना ।
अनिष्टदुष्टशब्दोषा दुर्गन्धा श्राद्धकर्मणीति ।

तदाह दक्षः

“ऋक्षकृमिहर्ता क्लिन्नं संकीर्णानिष्टागन्धकम् ।
देश त्वनिष्टशब्दं च वर्जयेच्छाद्धकर्मणीति ।
क्लिन सम्पृक्तं सङ्कीर्णमन्यैः सङ्कर्णम् ।

तथा शङ्क

‘गोगवाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि ।
न कुर्याच्छुद्धमेनेषु परक्यासु च भूमिषु" इति ।