पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
नृसिहप्रसादे

ननु--

‘‘मधुक रामठ चैव कर्दू र मरीचं गुडम् ।

इत्यादित्यपुराणे हिइगु द्रव्यस्य श्रद्धेयता अत्राश्राद्धेयता अतो

विरोधः परस्परम् । अत्राभिधीयते--अतिरात्रे षोडशिनं गृह्वाति
नातिरात्रे षोडशिनं ह्यतीति वाक्यविहितयोः षोडशिग्रहणा
ग्रहणयोरिब विकल्प इष्यते ।
तथा विष्णुपुराणे

“श्राद्धे न देया पालख्या तथा निष्पावकोद्रवौ ।
मसूर क्षार वार्ताक कुलत्थ शप शिशवः इति ।

क्षारो यवक्षारादिः। भरद्वाज.

“मुद्गाढकोमाषवर्ड विदलानि दद्यात्” इति ।
मुद्गः कृष्णेतरो मापः कुलत्थानुपलक्षयति ।

तदुक्तं चतुर्विंशतिमते

‘‘कोद्रवा राजमाषश्च कुलत्था वरकास्तथा ।
निष्पावाश्च विशेषेण पञ्चैतास्तु विवर्जयेत् ।
यावनालानपि तथा वर्जयन्ति विपश्चितः ।
तैलमष्यापदि प्राज्ञः सप्रयच्छन्ति याज्ञिकाः " इति ।

आपदि अन्यवस्त्वभावे याचनाल कञ्जिका तैलैरपि कार्येति ।

वरका वनमुद्गाः । प्रसिद्धमन्यत् । अत्र निष्पावनिषेधः कृष्ण
निष्यावविषयः ।
तथा च स्मृतिः

‘कृष्णधान्यानि सर्वाणि वर्जयेच्छादकर्मणीति ।