आम्रातकमाम्रवृक्षसदृशः पीतनाख्यो वृक्षः । ‘‘पीतन-कपीतनौ । आम्रातक" इति तत्रैव ( अः २-४-२७ ) !
अक्षोटः गिरिसम्भवः, पीयुः करारुजलकन्दो भद्रमुस्ता ख्यःकालेयको दारुहहिद्रा,सुनिषण्णं वितुनाख्यं शाकम् । ‘वितुन्नं सुनिषण्णकमिति शाकप्रक्रमेऽमरकोश उक्तवान् । कफ्लो लघु श्रीपर्णाख्यो वृक्षः। श्रीपर्णिका कुमुदिकेति । कौङ्किणी कोङ्कणदेश प्रभवा द्राक्षा, लकुचो जंबीरफलतुल्यः सर्वफलवान् गुल्मविशेषः । मोर्च कदलीफलंकर्कन्धुर्बदरीतिन्दुकः शितिसारकाख्यो वृक्षः ।
‘तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके इत्यमर कोशः। [ २, ५ ॥
शृङ्गाटकं जलजं त्रिकण्टकं, बृहती कण्टकारिका ।
‘निदिग्धिका स्पृशी व्याघ्रा बृहती कण्टकारिकेत्यमरः ।
( [२५] तस्याः फलं बृहतीफलम् । बिल्वामलकादीनि प्रसिद्धानि ।
प्रसाधिका प्रियङ्कश्च ग्रावाः स्युः श्राद्धकर्मणि ।
एतान्यपि समानानि श्यामाकानां गुः स्तुतैः ।
कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्नवशालयः।
महायचा त्रीहियवास्तथैव च मधूलिकाः ।
कृष्णाः श्वेताश्च लोहाश्च ग्राह्याः स्युः श्राद्धकर्मणि ।
राजमाषास्तथैवान्ये विकर्याः स्युः प्रयत्नतः ।
मसूराः शतपुष्पाश्च कुसुम्भं श्रीनिकेतनम् ।
बज्र्याश्वतिया नित्यं तथा दुर्लभका यवाः ।