पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
नृसिहप्रसादे

व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ।
पश्चाग्निरप्यधीयनो यजुर्वेदविदेव च ।
बह्वचश्च त्रिसौपर्णः त्रिमधुर्वा ऽथ य भवेन् ॥
त्रिणाचिकेतो विरजाः छन्दोगो ज्येष्ठसामगः ।
अथर्वशिरसोऽध्येता सर्वे ते पङ्किपावनाः ।


‘‘ब्रह्मदेयानुन्ताना ब्रह्मदेयाप्रदायकः ।
ब्रह्मदेयापतिश्चैव ब्राह्मणाः पद्विपाचनाः ।
यजुषां पारगो यश्च साम्ना यश्चापि पारगः ।
अथर्वशिरसोऽध्येता ब्राह्मणाः पद्विपावनाः ॥
चान्द्रायणव्रतस्थो यः सत्यवादां पुराणवित् ।
निवासः सर्वविद्यासु शान्तो विगलकल्मषः ॥
गुरुवेदान्निपूजासु शान्तो विगतकल्मषः ।
नित्यं योगपरः सिद्धः समलोष्टाश्मकाञ्चनः।
ध्यानशीलो यतिविद्वान ब्राह्मणः पद्विपावनाः’ इति ॥

यस्य स्थितिरविच्छिन्नवेदा, अविदितायोनिसङ्करत्वं पारमा

चेति हारीत. ।
मनुना कल्पान्तरक्तम्

काम श्रद्धेऽर्चयेन्मित्रं नाभिरूपमषि त्वरिम् ।
द्विषता हि हविर्युक्तं भवति प्रेत्य निष्फलम्” (३।१४३) इति।

अभिरूपमपि द्विद्वांसमपीति यावत् । काममित्युक्तेरनुकल्पता प्रती

यते । अयमनुकल्पः पूर्वोक्तकल्पालाभे द्रष्टव्यः ।